SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना | सू०१८२। दीपिका वृत्तिः । ॥२०१॥ प्रवृत्तिस्तु चतुर्थ भक्तादिशब्दानामेकाधुपवासादिष्विति, भिक्षण शीलं धर्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानि-पानाहाराः, उत्स्वेदेन निवृत्तमुत्स्वेदिम-येन व्रीह्यादिपिष्ट सुराद्यर्थमुत्स्वेद्यते, तथा संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपत्रशाकमुत्काल्य यत् शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव १, तिलोदकादि तत्प्रक्षालनजल, नवरं तुषोदक-त्री दकम् २, आयामकमवश्रावण सौवीरक-काजिक शुद्धविकटमुष्णोदकं ३, उपहृतमुपहितं, भोजनस्थाने ढौकित भक्तमिति भावः, फलिक-प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहृतम् , अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, तथा शुद्धमले पकृत शुद्धौदन च, तच्च तदुपहृत चेति शुद्धोपहृतम् , एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति, तथा संस्पृष्ट नाम भोक्तुकामेन गृहीत, गृहीतकुरादौ क्षिप्तो हस्तः क्षिप्तो न तावन्मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संस्पृष्टोपहृतम् , इदं चतुर्थेषणात्वेन भजनीय, लेपालेपकृतादिरूपत्वादस्येति, अत्र च गाथा-"सुद्धच अलेवकड , अहव ण सुद्धोदणो भवे सुद्धं । संसर्ट आउत्तं, [भोक्तुमारब्धमित्यर्थः] लेवाडमलेवड वावि ॥१॥"त्ति, इह त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति ४ । अवगृहीत नाम केनचित्प्रकारेण दायकेनात्तं भक्तादि 'यदि ति भक्तम् , चकाराः समुच्चयार्थाः, अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम् , एतच्च षष्ठी पिण्डैपणेति, एवं च वृद्धव्याख्या-परिवेषकः पिढिकायाः कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितः, इत्यादि ५। तथा अवममूनमुदरं-जठरं यस्यासाववमोदरः, अवम बोदरमवमोदरं तद्भावोऽवमोदरता, प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणमवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां ॥२०१॥ Jain Educaton n ational For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy