________________
सू० १७७।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१९४॥
मच्छितादिविशेषणो भवति, ततस्तत्प्रतिबन्धात् ' तस्स 'ति तस्य-देवस्य एवं ति एवंप्रकार चित्तं भवति, यथा 'इण्हि'ति यत इदानीं न गच्छामि, 'मुहुत्तति मुहर्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेण कालेण"ति येन तत् कृत्य समाप्यते स च कृतकृत्यत्वादागमनशको भवति तेन कालेन, गतेनेति शेषः, तस्मिन् वा काले गते, णंशब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधर्मेण-मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छतु ? इति असमाप्तकर्तव्यता नाम तृतीयमिति ३, 'इच्चे'त्यादिनिगमनम् ३ ॥ तदागमे हेतुमाह-देवकामेषु कश्चिदमूच्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति-'आचार्यः' प्रतिबोधकः प्रव्राजकादिरनुयोगाचार्यों वा 'इतिः' एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगश्चैव-मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः-सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवर प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्त च-"तवसंजमजोगेसु, जो जोगो तत्थ त पयट्टेइ । असहु च नियत्तेइ, गणतत्तिल्लो पवत्ती उ ॥१॥"त्ति, प्रवर्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः, उक्तं च-"थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीयइ जई, संतबलो त थिरीकुज्जा ॥१॥"इति, गणोऽस्यास्तीति-गणाचार्यः, गणधरो-जिनशिष्यविशेषः, आर्यिकाप्रतिजागरको वा साधुविशेषः, उक्त च-"पियधम्मो दढधम्मो, संविग्गो उज्जुओ य तेयंसी । संगहुवग्गहकुसलो, सुत्तस्थविऊ, गणाहिबई ॥१॥" गणस्यावच्छेदो-विभागोऽशोऽस्यातीति, यो हि गणांश गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्त विहरति स गणावच्छेदकः, आह च-"उद्धावणापहावण-खित्तोवहिमग्गणामु अविसाई । मुत्त
॥१९४॥
Jan Education
For Private & Personal use only
www.jainelibrary.org