________________
सू०१७७-१७८।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१९५॥
.000000000000000000000000000000000000000000000000000000000000
स्थतदुभयविऊ, गणवच्छो एरिसो होइ ॥१॥"त्ति, 'इम'त्ति इयं प्रत्यक्षासना एतदेव रूप यस्या न कालान्तरे रूपान्तरभाक सा एतद्रू पा दिव्या-स्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धिः-श्रीविमानरत्नादिसम्पदेवर्द्धिरेव सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराभरणादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभागोऽचिन्त्या वैक्रियकरणादिका शक्तिः, लब्धः-उपार्जितो जन्मान्तरे, प्राप्तः-इदानीमुपनतः, अभिसमन्वागतो-भोग्यतां गतः, 'तदिति तस्मात्तान् भगवतः-पूज्यान वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याण मङ्गल दैवत चैत्यमितिबुद्धया 'पर्युपासे' सेवे इत्येक, 'एस ण'ति 'एषः' अवध्यादिप्रत्यक्षीकृतो मानुष्यके भवे वर्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति ? दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः स्थूलभद्रवत् , 'तत् ' तस्माद् गच्छामित्ति-पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो बन्दे इति द्वितीय, तथा 'माताइ वा पिताइ वा भजाइ वा भायाइ वा भयणीइ वा पुत्ताइ वा धूयाइ वा' यावच्छब्दाक्षेपः स्नुषा-पुत्रभार्या, 'तदिति तस्मात् तेषामन्तिक-समीपे 'प्रादुर्भवामि' प्रकटीभवामि, 'ताव मे'त्ति तावन् मे-ममेति तृतीयम् ॥
तओ ठाणाई देवे पीहेज्जा त-माणुस्सग भव १ आरिप खेत्ते जम्म २ सुकुलपच्चायाति ३, ५ । तिहिं ठाणेहिं देवे परितप्पेजा, त-अहो ण मए संते बले सते वीरिए सते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झाएहिं विज्जमाणेहि कल्लसरीरेण णो बहुए सुप अहीए १, अहो णमए इहलोगपडिबीण परलोग
॥१९५||
Jain Education
For Private & Personal use only
www.jainelibrary.org