SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥ १८९ ॥ Jain Education Intern ग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च - " उवसंपया य तिविहा, नाणे तह दंसणे चरिते य । दंसणनाणे तिविहा, दुविहा य चरितअट्ठाए || १ | "त्ति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, एवं विजण 'त्ति 'एवमित्याचार्यत्वादिभेदेन त्रिधैव विहान - परित्यागः तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आह च - " नियगच्छादन्नम्मि उ सीयणदोसाइणा होइ "त्ति, अथवा आचार्यो ज्ञानाद्यर्थमुपसम्पन्नं यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानिः, उक्तं च- "उवसंपन्नो जं कारणं तु तं कारण अपूरितो | अहवा समाणियमि य, सारणया वा विसग्गो वा ॥१॥”त्ति, एवमुपाध्यायगणिनोरपीति । इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह - तिविहे वयणे पं० त ० -तव्वयणे तयण्णवयणे णोअवयणे, तिविहे अवयणे पं० त०- णो तव्वयणे णो तदन्नवयणे अवयणे । तिविहे मणे पं० त०-तम्मणे तदण्णमणे णोअमणे, तिविहे अमणे पं० त० - णोतम्मणे णो तयण्णमणे अमणे ( सू० १७५) । 'तिविहे’त्यादिसूत्रचतुष्टयम्, अस्य गमनिका - तस्य-विवक्षितार्थस्य घटादेर्वचन - भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद् - विवक्षितघटादेरन्यः पटादिस्तस्य वचनं तदन्यवचनं, घटापेक्षया पटवचनवत्, नोअवचनम् - अभणननिवृत्तिर्वचनमात्र डित्थादिवदिति, अथवा सः शब्दव्युत्पत्ति (प्रवृत्ति) निमित्तधर्मविशिष्टोऽर्थोऽने For Private & Personal Use Only सू० १७४-१७५। ॥ १८९॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy