________________
|| सू०१७३-१७४।
श्रीस्थाना
सूत्रदीपिका वृत्तिः ।
॥२८॥
उवसंपया, एवं विजहणा । (सू० १७४) । _ 'साहम्मिय'ति समानेन धर्मेण चरतीति साधर्मिकस्त सम्-एकत्र भोगो-भोजन सम्भोगः-साधूनां समान| सामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकस्तं, विसम्भोगोदानादिभिरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन् नातिकामति-न लघयत्याज्ञां सामायिक वा विहितकारित्वादिति, स्वयमात्मना साक्षाद् दृष्ट्वा साम्भोगिकेन क्रियमाणामसाम्भोगिकदानग्रहणादिकामसमाचारी, तथा 'सहस्स'ति श्रद्धा-श्रद्धानं यस्मिन् अस्ति स श्राद्धः-श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य अवधार्य, तथा 'तच्च'ति एक द्वितीय यावत् तृतीयं 'मोस'ति मृपावादं अकल्पग्रहणपार्श्वस्थदानादिना सावधविषयपतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, आवर्त्तते-निवर्त्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं वोचित दीयते, चतुर्थ त्वाश्रित्य प्रायो नो आवर्त्तते-तं नालोचयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिण विसम्भोगिक कुर्वनातिक्रामतीति प्रकृतम् , उक्त च-“एगं व दो व तिन्नि व, आउटुंतस्स होइ पच्छित्तं । आउटुंते वि तओ, परेण तिण्हं विसंभोगो ॥१॥" इह चाद्य स्थानद्वयं गुरुतरदोषाश्रय, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसम्भोगः क्रियते, तृतीय स्वल्पतरदोषाश्रयं तत्र हि चतुर्थवेलायां स विधीयत इति । 'अणुन्न'त्ति, अनुज्ञानमनुज्ञा-अधिकारदानम् , आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च-"पंचविहं आयारं, आयरमाणा तहा पयासंता। आयारं दंसंता, आयरिया तेण वुच्चंति ॥१॥" नद्भावस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः,
900000000000000000000000000000000000000000000000000000000000000000004
॥२८॥
Jan Education
For Private & Personal use only
www.jainelibrary.org