________________
सू०
६८
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१८४॥
00000000000000000000000000000000000000000000000000000000000
आलोपज्जा जाव पडिवज्जेज्जा त-अमाइस्स णं अस्सि लोए पसत्थे भवइ उववाए पसत्थे भवइ आयाई पसत्था भवइ ५। तिहि ठाणेहि मायी माय कटु आलोएज्जा जाव पडिवज्जेज्जा, तं०-णाणट्ठयाए दसणट्ठयाए चरित्तयाए ६ । (सू० १६८)।
'तिहि ठाणेही त्यादि, अस्य च पूर्वसूत्रेण सहाऽयं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमजसतोक्ता, इह तु कषायवतां तामाहेत्येवंसम्बन्धस्याऽस्य व्याख्या-'मायी' मायावान् 'मायां' मायाविषयं गोपनीय प्रच्छन्नमकार्य कृत्वा नो आलोचयेत् मायामेवेति, शेष सुगम, नवरं आलोचन-गुरुनिवेदन प्रतिक्रमण-मिथ्यादुष्कृतदान निन्दा-आत्मसाक्षिकी गर्दा-गुरुसाक्षिका वित्रोटन-तदध्यवसायविच्छेदन विशोधनम्-आत्मनः चारित्रस्य वाऽतिचारमलक्षालनम् अकरणताभ्युत्थान-पुन:तत् करिष्यामीत्यभ्युपगमः 'अहारिह' यथोचितं 'पायच्छित्त'ति पापच्छेदक प्रायश्चित्तविशोधकं वा तपःकर्म निर्वि कृतिकादि प्रतिपद्येत, तद्यथा-अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १, तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २, करिप्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति ३। कीर्तिः-एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णों यशःपर्यायत्वात्तस्य अथवा दानपुण्यफला कीर्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीतिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदं सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्ष, 'मायं कटु'त्ति मायां कृत्वा-मायां पुरस्कृत्य माययेत्यर्थः, 'परिहास्यति' हीना भविष्यति पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदं तु प्राप्तप्रसिद्धिपुरुषापेक्ष, शेष सुगमम् ॥ उक्तविपर्ययमाह
॥१८४॥
Jan Education
For Private & Personal use only
www.iainelibrary.org