________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥१८२॥
Jain Education International
तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्व प्रत्यक्षतया सत्त्वेन कृतकर्म भवनपक्षस्य सम्मतत्वादिति पृच्छतां चायमभिप्रायो - यदि निर्ग्रन्था अपि अकृतमेव कर्म्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुशोभनम्, अस्मत्समानबोधत्वादिति शेषान पृच्छन्तस्तृतीयमेव पृच्छन्तीति भावः, 'से'त्ति अथ तेषामकृतकर्म्माभ्युपगमवतामेवं वक्ष्यमाणप्रकारं वक्तव्यम् - उल्लापः स्यात्, त एव वा एवमाख्यान्ति परान् प्रति यदुत - अथैवं वक्तव्य - प्ररूपणीयं तत्त्ववादिनां स्याद् - भवेत्, अकृते सति कर्म्मणि दुःखभावाद् अकृत्यम् - अकरणीयमबन्धनीयम् - अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं ? - 'दुक्ख' दुःखहेतुत्वात् कर्म्म, 'अफुस्सं' ति अस्पृश्य कर्म अकृतत्वादेव, तथा क्रियमाणं च वर्त्तमानकाले बध्यमानं कृतं चातीतकाले बद्ध, क्रियमाणकृतं द्वाद्वैकत्वं कर्म्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं किं तत् ? - दुःख कर्म्म' 'अकिच' दुक्ख' मित्यादिपदत्रय', 'तत्थ जा सा अकडा कज्जइ तं पुच्छति' इत्यन्यतीर्थिकमतमाश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः किमुक्तं भवतीत्याहअकृत्वा अकृत्वा कर्म्म प्राणा- द्वीन्द्रियादयः भूतास्तरवो जीवाः - पञ्चेन्द्रियाः सत्त्वाः- पृथिव्यादयो, यथोक्तम् - " प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वाः प्रकीर्तिताः || १ ||" इति, वेदनां-पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद् वा तेऽज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति यदुत एवं वतव्यं स्यादिति प्रक्रमः ॥ एवमन्यतीर्थ कममुपदश्ये निराकुर्वन्नाह - 'जे ते' इत्यादि, य एते अन्यतीर्थि का एवम् उक्तप्रकारम् 'आह'सु'त्ति उक्तवन्तः 'मिथ्या' असम्यक् तेऽन्यतीर्थिका एवमुक्तवन्तः, अकृतायाः क्रियायाः क्रियात्वानुपपत्तेः क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति ?, अकृतकर्मा
For Private & Personal Use Only
सू० १६७ ।
॥१८२॥
www.jainelibrary.org