SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सू०१६७। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१८॥ एवं परूवेमि-किञ्च दुक्ख फुस्स दुक्ख कज्जमाणकड दुक्ख कटूटु २ पाणा भूया जीवा सत्ता वेयण वेदे तित्ति वत्तव्व सिया(सू० १६७) । तइयठाणस्स बीओ उद्देसओ सम्मत्तो॥ 'अन्नउथिए'त्यादि, प्रायः स्पष्ट, किन्तु अन्ययथिका इह तापसा विभङ्गज्ञानवन्तः ‘एवं वक्ष्यमाणप्रकारमाख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणेतदेव प्रज्ञापयन्ति-प्ररूपयन्तीति पर्यायरूपपदद्वयेनोक्तमिति । किं तदित्याह'कथं' केन प्रकारेण 'श्रमणानां निर्ग्रन्थानां, मते इति शेषः, क्रियत इति क्रिया-कर्म सा 'क्रियते' भवति दुःखायेति विवक्षया इति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा-कृता क्रियते-विहितं सत् कर्म दुःखाय भवतीत्यर्थः१ एवं कृता न क्रियते २ अकृता क्रियते ३ अकृता न क्रियते ४ इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टः त शेषभङ्गनिराकरणपूर्वकमभिधातुमाह-'तत्थ'त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथम द्वितीय चतुर्थं च न पृच्छन्ति, एतत्त्रयस्यात्यन्त रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि-याऽसौ कृता क्रियते' यद् कर्म कृत सत् भवति नो तत् ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासम्मतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते' इति तेषु-भङ्गकेषु मध्ये यत्तत्कर्म कृतं नो तत् पृच्छन्ति, अत्यन्तविरोधेनासम्भवात् , तथाहि-कृत चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात् , 'तत्र' तेषु 'याऽसावकृता' यत्तदकृत कर्म 'नो क्रियते' न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाणकल्पत्वादिति, अमुमेव भङ्गत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्सम्मत इति त पृच्छन्ति, अत एवाह-तत्र 'याऽसावकृता क्रियते' यत्तदकृतं-पूर्वमविहितं कर्म भवति-दुःखाय सम्पद्यते ॥१८॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy