________________
सू० १६६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१७॥
महावीरे गोतमादिसमणे णिग्गंथे आमंतेत्ता पव वयासी-दुक्खभया पाणा समणाउसो! १, से ण भंते ! दुक्खे केण कडे ?, जीवेणं कडे पमादेण २, से ण भंते ! दुक्खे कह वेइज्जइ ?, अप्पमाएणं ३ (सू० १६६)।
'तओ अच्छेज्जेत्यादि, छेत्तुमशक्या बुद्धया क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयः-कालविशेषः, प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोऽशः परमाणु:-अस्कन्धः पुद्गल इति, उक्तं च-"सत्थेण सुतिक्खेणवि, छेत्तुं भेत्तुं च ज किर न सका । त परमाणुं सिद्धा, वयंति आई पमाणाण॥१॥"ति, 'एव'मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽद्धं येषामित्यनर्दा विभागद्वयाभावात् , अमध्या विभागत्रयाभावात् , अत एवाह-'अप्रदेशा' निरक्यवाः, अत एवाविभाज्या-विभक्तुमशक्याः, अथवा विभागेन निवृत्ता विभागिमास्तनिषेधादविभागिमाः । एते च पूर्वतरसूत्रोक्ताः त्रसस्थावराख्याः प्राणिनो दुःखभीरव इत्येतत् संविधानकद्वारेणाह- अन्जो' इत्यादि सुगम, केवलम् 'अञ्जो'त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रण हे आर्या ! 'इतिः' एवमभिलापेनामन्त्र्येतिसम्बन्धः, श्रमणो भगवान महावीरो गौतमादीन् श्रमणान् निर्ग्रन्थानेवं-वक्ष्यमाणन्यायेनावादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो विभ्यतीत्यर्थः, 'प्राणा' प्राणिनः ‘समणाउसो'त्ति हे श्रमणाः! हे आयुष्मन्तः! इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतां प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेनाऽपृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च-"कत्थइ पुच्छइ सीसो, कहिचऽपुट्ठा वयंति आयरिया । सीसाण तु हियटा, विउलतरागं तु पुच्छाए॥१॥"इति. ततश्च 'उवसंकमति'त्ति उपसङ्क्रामन्ति-उपसङ्गच्छन्ति तस्य समीपतिनो भवन्ति, इह च
000000000000000000000000000000000000000000000000000000000000
॥१७॥
Jain Education
For Private & Personal use only
Twww.jainelibrary.org