SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सू. ३-१६ श्रीस्थानाङ्गसूत्र- दीपिका वृत्तिः। 8 ॥ ४ ॥ उवघाय ७१, कुविहयगई ७२, थावरदसगेण हुंति चोत्तीसं । सव्वाउ मिलियाउ, बासीती पावपगईओ ८२ ॥ ३॥" तदेवं द्वयशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसञ्चाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकमिति । अनन्तरोक्तपुण्यपापकर्मणोबन्धकारणनिरूपणायाह 'एगे आसवेत्ति आश्रवन्ति-प्रविशन्ति येन कर्माण्यात्मनीति आश्रवः, कर्मबन्धहेतुरिति भावः, स चेन्द्रियकषायाव्रतक्रियायोगरूपः क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च"इंदिय ५ कसाय ४ अव्वय ५, किरिया २५ पणचउपणपणवीस । जोगा तिन्नेव भवे, आसवभेया उ बायाला ४२ ॥१॥ त्ति" __तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात् , तत्र द्रव्याश्रवो जलान्तर्गतनावादौ तथाविधपरिणामेन छिद्रेजलप्रवेशन भावाश्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति, स चाश्रवसामान्यादेक एवेति ॥ अथाश्रवप्रतिपक्षभूतं संवरस्वरूपमाह-'एगे संवरें' त्ति संब्रियते-कर्मकारणं प्राणातिपातादि रुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः, स च समिति-गुप्ति-धर्मानुप्रेक्षा-परीषह(जय)चारित्ररूपः क्रमेण पञ्च-त्रि-दश-द्वादश-द्वाविं. शति-पञ्चभेदः, आह च"समिई ५ गुत्ती ३ धम्मो १०, अणुपेह १२ परीसहा २२ चरित्तं ५ च । सत्तावन्नं भेया, पणतिगभेयाई संवरणे ॥१॥ ति" ___अथवाऽयं द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतो जलमध्य-गतनावादेरनवरतप्रविशज्जलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियादिछिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ॥ संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह-'एगा वेयण'त्ति ममममममा ॥४। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy