________________
Jain Education Intern
त्मनो मोक्षः, आह च- 'कृत्स्नकर्मक्षयान्मोक्षः' स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईपत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतः, तयोश्च मोचनसामान्यादेको मोक्ष इति । मोक्षच पुण्यपापक्षयाद् भवतीति पुण्यपापयोः स्वरूपं वाच्यं तत्रापि मोक्षस्य पुण्यस्य च शुभ स्वरूपसाधर्म्यात्पुण्यं तावदाह - एगे पुणे' 'पुणे शुभे इति वचनात् पुणति - शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं - शुभकर्म, सद्यादि द्विचत्वारिंशद्विधम्, यथोक्तम्
“ सायं १, उच्चागी २, नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७, देवदुगं ९, पंचिदियजाई १०, तणुपण १५ ॥१॥ अंगोवंगतियं पिव १८ संघयणं वारिसनारायं ४९ । पढमं चिय संठाणं २०, वण्णाइचउकसुपसत्थं २४ ।। २ ।। अगुरुलहु २५, पराघ २६, उस्मा २७, आय २८, च उज्जो २९ । सुपसत्था विहायगई ३०, तसाइदसगं ४०, च निम्मा ४१ ॥ ३ ॥ तित्थयरेण सहिया ४२, वायाला पुण्णपगईओ "त्ति ॥
एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धि-पापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति । पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमा इ- एगे पावे' त्ति पाशयति गुण्डयति आत्मानं पातयति वा आत्मन आनन्दरसं शोषयति रुक्षयति ( क्षपयति ) इति पापम्, तब ज्ञानावरणादिद्वयशोतिभेदम् यदाऽऽछ— " नाणंतराय निरयदुर्ग ५०,
१०, दंसणणव १९, मोहयछबी ४५ । अस्सायं ४६, निरयाउं ४७, नीयागोएण अडयाला ४८ ॥१॥ तिरियदुगं ५२, जाइचउक्तं च ५६, पंच संघयणा ६१ । संठाणा विष पंच ६६ उ वन्नाइच उक्कमपत्यं ७० ॥
For Private & Personal Use Only
jainelibrary.org