________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१६॥
सुबोध, किन्तु बोधिः-इह सम्यग्बोधः, इह चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद् वा, बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, एवं मोहे मूढ'त्ति बोधिवद् बुद्धवच्च मोहो मृढाश्च त्रिविधा वाच्याः, तथाहि-'तिविहे मोहे पण्णत्ते त-नाणमोहे'इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढे इत्यादि । चारित्रबुद्धाः प्रागभिहिताः ते प्रव्रज्यायां सत्यामतस्तां भेदतो निरूपयन्नाह-'तिविहे'त्यादिसूत्रचतुष्टयं भुगम, केवल प्रव्रजन-गमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमन मोक्षगमनमेव, कारणे कार्योपचारात् , तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, इहलोकप्रतिवद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधा प्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रतः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिप्वाशंसनतः प्रतिबन्धात , मार्गत:-पृष्ठतः स्वजनादिपु स्नेहाच्छेदात् तृतीया द्विधाऽपीति । 'तुयावइत्त'त्ति 'तुद व्यथने' इति वचनात तोदयित्वा-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते 'मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव' सा तथोच्यते, 'पुयावइत्त'त्ति, प्लुङ् गता वितिवचनात् प्लावयित्वा-अन्यत्र नीत्वा आर्य रक्षितवद् या प्रव्रज्या दीयते सा तथेति, 'बुयावइत्ता' संभाष्य गौतमेन कर्षकवदिति । अथवा अवपातः-सेवा सद्गुरूणां ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन-धर्मदेशनेन आख्यातस्य वा प्रव्रजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या 'फल्गुरक्षितस्ये'वेति, 'संगार'त्ति सङ्केतस्तस्माद् या सा सङ्गारप्रव्रज्या 'मेतार्यादी'नामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रबजितव्यमित्येवं या सा तथा ॥ उक्तप्रवज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह
00000000000000000000000000000000000000000000000000000000000000
॥१६९॥
Jan Education International
For Privals & Personal use only
www.jainelibrary.org