SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग दीपिका वा-देवगतिलक्षण धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थ चेद, तस्य लक्षप्रमाणत्वात् , 'उक्कोसेण"ति उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽगुलासङ्ख्येयभागमात्रत्वादिति, शेषं कण्ठयमिति । अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह-'तओ'इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेष स्पष्टम् ॥ इति त्रिस्थानकस्य प्रथमोदेशको विवरणतः समाप्तः ॥ वृत्तिः । 0000000000000000000000000000000000000000000000000000000 व्याख्यातः प्रथमोद्देशकः, तदनन्तरं द्वितीयः प्रारभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोदेशके जीवधर्माः प्राय उक्ताः, इहापि प्रायस्त एवेति । इत्थंसम्बन्धस्यास्येदमादिसूत्रम्__नमो सुयदेवयाए ॥ तिविहे लोए पं० त०-णामलोए ठवणलोए दब्बलोए, तिविहे लोए पं० २०-णाणलोए दसणलोए चरित्तलोए, तिविहे लोए पं० त०-उइढलोए अहोलोए तिरियलोए (सू० १५३)। तिविहे' इत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह च चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या- लोक्यते केवलालोकेनेति लोकः, नामस्थापने इन्द्रसूत्रवत् , द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, भावलोक 100000000000000000000000000000000000000000000000000000६ ॥१६५॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy