________________
सू०१४५-१४६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१६॥
-0000000000000000000000000000000000000000000000000000000000000
काल जोणी सचिट्ठइ ?, गोयमा ! जहण्णेण अंतोमुहुत्त उक्कोसेण तिणि संवच्छराई, तेण परं जोणी पमिलाइ, तेण परं जोणी पविद्ध सइ, तेण परं बीए अबीए भवइ, तेण परं जोणीवोच्छेदो पण्णत्तो (सू० १४५)। दोच्चाए ण सकरप्पभाए पुढवीए णेरइयाण उक्कोसेण तिणि सागरोचमाई ठिई पण्णत्ता १, तच्चाए णं वालुयप्पभाए पुढवीए जहण्णेण' णेरइयाण तिणि सागरोवमाइ ठिई पण्णत्ता २ (सू० १४६) ।
स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरमाह-'अह भंतेत्ति 'अथ' परिप्रश्नार्थकः, 'भदन्त इति भदन्तः-कल्याणस्य मुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, अथवा भज्यते-सेव्यते शिवार्थिभिरिति भजन्तः, अत्र बबर्थयुक्तः, अतो 'भंतेत्ति महाबीरमामन्त्रयन्नुक्तवान् गौतमादिः । 'शालीनां' कलमादिकानामिति विशेषः, शेषाणां व्रीहीणामिति सामान्य, 'यवयवा' यवविशेपा एव, 'एतेषाम् ' अभिहितत्वेन प्रत्यक्षाणां, 'कोष्ठे-कुशूले 'आगुप्तानि-प्रक्षेपणेन सरंक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं पल्यो-वंशकटकादिकृतो धान्याधारविशेषः, मञ्च:-स्थूणानामुपरि स्थापितो वंशकटकादिमयो जनप्रतीतः, मालको-गृहस्योपरितनभागः, अभिहितं च-"अक्कुड्डो होई मंचो, मालो य घरोवरि होइ"त्ति, 'ओलित्ताण ति द्वारदेशे पिधानेन सह गोमयादिना अवलिप्तानां, 'लित्ताण ति सर्वतः 'लछियाण ति रेखादिभिः कृतलान्छनानां, 'मुहियाण'ति मृत्तिकादिमुद्रावतां 'पिहियाण"ति स्थगितानां, 'केवतिय'ति कियन्तं काल योनिर्यस्यामकुर उत्पद्यते ?, ततः परं योनिः प्रम्लायति-वर्णादिना हीयते, प्रविध्वस्यते-विध्वंसाभिमुखा भवति, विध्वस्यते-क्षीयते, एवं च तद्बीजमबीज भवति-उप्तमपि नाङ्कुरमुत्पादयति, किमुक्त भवति ?-ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च केवलिभिरिति, शेषं स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह-'दोच्चाए'इत्यादि
B-000000000000000000000000000000000000000000000000000000000000000.
Jain Education in
For Private & Personal use only
||www.jainelibrary.org