SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सू०१३८ श्रोस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१५६॥ अनन्तरमुक्ताः तत्साधर्म्यात पुद्गलधर्मान् निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह-'तिही'त्यादि, छिन्नः खड्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह-'अच्छिन्नपुद्गल'इति, 'आहारेज्जमाणे'त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणात , एवं विक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात् स्थानान्तर सङ्क्रम्यमाणो हस्तादिनेति । उपधीयते-पोष्यते जीवोऽनेनेति उपधिः, कर्मवोपधिः कर्मोपधिः, एवं शरीरोपधिः, बाह्यःशरीरबहिर्वी 'भाण्डानि' च-भाजनानि मृण्मयानि 'मात्राणि' च-मात्रायुक्तानि कांस्यादिभाजनानि भाजनोपकरणानीत्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं-वस्त्राभरणादि तदेव मात्रा-परिच्छदः सैवोपधिरिति, ततो बाह्यशब्दस्य कर्मधारय इति, चतुर्विंशतिदण्डकचिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद् , द्वीन्द्रियादीनां तूपकरण दृश्यत एव केषाश्चिदित्यत एवाह-'एव'मित्यादि, 'अहवे'त्यादि, सचित्तोपधिर्यथा शैलं भाजनम् , अचित्तोपधिः-वस्त्रादिः, मिश्रः-परिणतप्राय शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधि रकाणां शरीरम् , अचेतनः-उत्पत्तिस्थान मिश्रः-शरीरमेवोच्छ्वासादिपुद्गलयुक्त तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति । 'तिविहे परिग्गहे' इत्यादिसूत्राणि उपधिवज्ज्ञेयानि, नवरं परिगृह्यते-स्वीक्रियते इति परिग्रहो-मृ.विषय इति, इह चैषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकैकेन्द्रियाणां कादिरेव सम्भवति, न भाण्डादिरिति ।। पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे' इत्यादिभित्रिभिर्दण्डकैः सूत्रैस्तदाह तिविहे पणिहाणे ५० त०-मणपणिहाणे वयपणिहाणे कायपणिहाणे, पवं पंचि दियाणं जाव वेमाणियाण, ॥१५६॥ Jain Educaton n ational For Privals & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy