SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सू०१३५। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१५॥ 1000000000000000000000000000000000000000000000000000000004 भर्जिका, रसालू-मज्जिका, तल्लक्षणमिदम्-"दो घयपला महुपलं, दहिस्स अद्धाढय मिरिय वीसा । दस खण्डगुलपलाइ, एस रसालू णिवइजोग्गो ॥१॥"त्ति, पान-सुरादि, पानीयं-जलं, पानक-द्राक्षापानकादि, शाकः-तक्रसिद्ध इति, यावान् जीवो यावज्जीव-यावत् प्राणधारण पृष्ठे-स्कन्धे अवतंस इवावतंस:-शेखरस्तस्य करणमवतंसिका पृष्ठयवतंसिका तया पृष्ठयवत सिकया परिवहेत , पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्य-अम्बापितुदुष्प्रतिकारम् , अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद् , आह च-"कयउवयारो जो होइ, सज्जणो होइ को गुणो तस्स ? । उवयारबाहिरा जे, हवंति ते सुंदरा सुयणा ॥१॥"त्ति, 'अहे ण से'त्ति अथ चेत् णमिति वाक्यालङ्कारे स पुरुषस्तम्-अम्बापितरं धम्म स्थापयिता' स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह 'आघवइत्ता' धर्ममाख्याय 'प्रज्ञाप्य' बोधयित्वा 'प्ररूप्य' भेदत इति, 'तेणामेव'त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन 'तस्य' अम्बापितुः 'सुप्पडियार"ति सुखेन प्रतिक्रियते इति सुप्रतिकार, भावसाधनोऽयं, तद्भवति-प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महोपकारत्वाद् , आह च-"संमत्तदायगाण, दुप्पडियारं भवेसु बहुएसुं । सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥" इति १ । अथ भर्तुर्दुष्प्रतिकार्यतामाह-'केइ'त्ति कश्चित्-कोऽपि महती ऐश्वर्यलक्षणाऽर्चाज्वाला पूजा वा यस्य अथवा महांश्चासावर्थपतितया अर्यश्च-पूज्य इति महा! महायों वा माहत्य-महत्त्वं तद्योगान्माहत्यो वा, ईश्वर इत्यर्थः, दरिद्रम्-अनीश्वरं कश्चन पुरुषमतिदुःस्थ समुत्कर्ष येत्' धनदानादिनोत्कृष्ट कुर्यात् , 'तत:' समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे'त्ति सन् 'पच्छत्ति पश्चात्काले 'पुरं च ण'ति Jan Education Inter For Private & Personal use only Il www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy