SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सू०१३५। श्रोस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१५२॥ आह च-"दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः" ॥१॥ इति, तत्र जनकदुष्प्रतिकार्यतामाह-संपाओ'त्ति प्रातः-प्रभात तेन सम सम्प्रातः सम्प्रातरमपि च-प्रभातसमकालमपि च, यदैव प्रातः सम्प्रवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थाद् वाऽतिप्रभाते, प्रतिशब्दार्थत्वाद् वाऽस्य प्रतिप्रभातमित्यर्थः, 'कश्चिदिति कुलीन एव, न तु सर्वोऽपि 'पुरुषो'मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात् , शतं पाकानाम्-औषधिकाथानां पाके यस्य १ ओषधिशतेन वा सह पच्यते यत् २ शतकृत्वो वा पाको यस्य ३ शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत् तच्छतपाकम् , एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम् , 'अब्भंगेत्ता' अभ्यङ्ग कृत्वा गन्धरण ति गन्धाट्टकेन-गन्धद्रव्यक्षोदेन 'उद्वर्त्य'उद्वलन कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकैः ‘मजयित्वा' स्नपयित्वा 'मनोज्ञ' कलमौदनादि 'स्थाली' पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपर्क वा न तथाविध स्यादितीद विशेषणमिति 'शुद्ध' भक्तदोपवर्जित स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतेयंजनैः-शालनकैस्तक्रादि| भिर्वा आकुल-सङ्कीर्ण यत्तथा, भोजन भोजयित्वा, एते चाष्टादशभेदाः-सूओ १ दणो २ जवन्ने ३, तिण्णि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १०, मूलफला ११ हरियग' १२ सागो१३ ॥१॥ | होइ रसालू य तहा १४, पाण १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८, निरुवहओ लोइओ पिंडो ॥२॥" मांसत्रयं जलजादिसत्क, जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि, गुललावणिका-गुडपर्पटिका, लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पद, हरितकं जीरकादि, शाको-वस्तुलादि ॥१५२॥ JainEducaton inter For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy