________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१३८॥
Jain Education Inter
हयअपच्चक्रखायपावकम्मं फासुएण वा अफारएण वा एसणिज्जेण वा अणेसणिज्जेण वा असण० ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो पावे कम्मे कज्जइ, नो से काइ निज्जरा कज्जइ "त्ति, यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति, नन्वेवं प्राणातिपातमृपावादावप्रासुकदानं च कर्तव्यमापन्नमिति?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतः - " अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ||१|| ” तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम् - "एतदिह भावयज्ञः, सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयान्युच्छित्त्या, नियमादपवर्गबीजमिति ॥ | १ || ” तथा “भन्नइ जिणपूयाए, कायवो जवि होइ उ कहिंचि । तहवि तई परिसुद्धा, गिहीण कूवाहरणजोगा ||१|| असदारंभपवत्ता, जं च गिही तेण तेसिं विन्नेया । तनिव्वित्तिफलच्चिय, एसा परिभावणीयमिदं ||२||" ति दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासका :- संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति यथोक्तं - “ संविग्गभावियाण, लोयदित भावियाणं च । मोण खेत्तकाले भावं च कहिंति सुन्छ ||१||" इति तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदम् - "संथरणंमि अमुद्ध दोहवि गिहंदि तयाणऽहिय । आउरदितेण तं चैव हियं असंथरणे ॥१॥" तथा " नायागयाण कप्पणिज्जाण अन्नपाणाईण दव्या देसकालसद्धासकारकमजुयं " इत्यादि, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति।। अल्पायुष्कताकारणान्युक्कान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह - 'तिहि 'ति प्राग्वदवसेयम्, नवरं 'दोहाउत्ताए 'त्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यम् प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमि
,
For Private & Personal Use Only
सू० १२५ ।
॥१३८॥
www.jainelibrary.org