SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग । सू० १२५॥ दीपिका वृत्तिः । ॥१३७॥ इह च प्राणातिपातयित्रादिपुरुपनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुबन्धनिबन्धनत्वेन तत्कारणत्वमुक्त द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थ पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु प्रवर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद , अतः कथमभिधीयते-सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेपणमवश्य वाच्यं, यत इतस्तुतीयसूत्रे प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवेषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् , तथा “समणोवासयस्स ण भंते ! तहारूवं समण वा माहण वा अफासुएण अणेसणिज्जेण असणपाणखाइमसाइमेण पडिलाभमाणस्स किं कज्जइ ?, गोयमा! बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ"त्ति भगवतीवचनश्रवणादवसीयते - नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजाधनुष्ठानस्यापि तथाप्रसङ्गात् , अथाप्रामुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृपावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम् , एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाच्वेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रामुकदान ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति ?, नैवम् , अप्रामुकेनेति तत्र विशेषणस्यानर्थकत्वात् , प्रामुकदानस्यापि अल्पायुष्कफलत्वाद् , उतं च भगवत्याम् – “समणोवासगस्स ण भंते ! तहारूवं असंजयअविरयअप्पडि అంతరించి మరింత చించి అంత మంచి చివరి అవంతి శాంతం ॥१३७॥ Jain Education For Privals & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy