SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सू०१२५। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१३६॥ సంభందించింది అంశాంశ పరిచింది మరియు చివరిసారి जीवित यस्य सोऽल्पायुस्तद्भावस्तत्ता तस्यै अल्पायुष्टायै तदर्थ तन्निबन्धनमित्यर्थः, कर्म-आयुष्कादि, अथवा अल्पमायुः-जीवित यत आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्म-आयुर्लक्षण 'प्रकुर्वन्ति' वघ्नन्तीत्यर्थः, तद्यथा'प्राणान् ' प्राणिनोऽतिपातयितेति 'शीलार्थे तृन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृपावाद वता यश्च भवति, तथा-तत्प्रकारं रूपं-स्वभावो नेपथ्यादि वा यस्य स तथारूपो दानोचित इत्यर्थः, तं, श्राम्यति-तपस्यतीति श्रमणः-तपोयुक्तस्त, "मा हन"इत्याचष्टे यः परं प्रति, स्वयं हनननिवृत्तः सन्निति स माहनो-मूलगुणधरस्त, वाशब्दौ विशेषणसमुच्चयाथौं, प्रगता असवः-अमुमन्तःप्राणिनो यस्मात् तत् प्रासुक, तन्निषेधादप्रामुक सचेतनमित्यर्थः तेन, एष्यते-गवेष्यते उद्गमादिदोपविकलतया साधुभिर्यत्तदेषणीय-कल्प्य, तन्निषेधादनेषणीयं तेन, अश्यते-भुज्यते इत्यशन च-ओदनादि, पीयत इति पान च-सौवीरादि, खादन खादः तेन निवृत्तं खादनार्थ तस्य निर्वर्त्य मानत्वादिति खादिम च भक्तोपादि, स्वादन स्वादः तेन निर्वृत्तं स्वादिम दन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र-"असण ओयणसत्तुग-मुग्गजगाराइखज्जगविही य । खीराइमरणाई, मडगपभिई य विन्नेयं ॥१|| पाण सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउकाओ सव्यो, कक्कडगजलाइयं च तहा ॥२॥ भत्तोस दंताई, खज्जूरं नालिकेरदकखाई । कक्कडियबगफणसाइ, बहुविहं खाइम नेयं ॥३॥ दंतवण तंबोल, चित्तं तुलसी (अजग) कुहेडगाई य । महुपिप्पलिमुंठाइ, अणेगहा साइम होइ।।४।। इति, प्रतिलम्भयिता-लाभवन्तं करोतीत्येवं शीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, 'इच्चेएहि ति इत्येतेः प्राणातिपातादिभिरुक्तप्रकारैः त्रिभिः स्थानर्जीवा अल्पायुष्टया कम प्रकुर्वन्तीति निगमनमिति । 000000000000000000000000000000000000000000000000000000004 ॥१३६॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy