________________
सू०१२४।
श्रोस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१३४॥
जीवस्य योगो-वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स चतुर्विधः-सत्यमनोयोगो १ मृपामनोयोगः २ सत्यमृषामनोयोगो ३ असत्यमृषामनोयोग४श्चेति, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं | स सप्तविधः-औदारिकौ १ दारिकमिश्र २ वैक्रिय ३ वैक्रियमिश्रा ४ हारका ५ हारकमिश्र ६ कार्मणकाययोग७ भेदादिति । सामान्येन योगं प्ररूप्य विशेषतो नारकादिषु चतुर्विंशतौ पदेषु तमतिदिशश्नाह-एव'मित्यादि, कण्ठय, नवरमतिग्रसङ्गपरिहारायेदमुक्तं - "विगलिंदियव जाण"ति, तत्र विकलेन्द्रियाः - अपञ्चेन्द्रियाः, तेषां ह्ये केन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति ॥ मनःप्रभृतिसम्बन्धेनैवेदमाह-'तिविहे पओगे' इत्यादि कण्ठय, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यद् व्यापारण-प्रयोजन स प्रयोगः, मनसः प्रयोगो मनःप्रयोगः, एवमितरावपि, 'जहे'त्याद्यतिदेशसूत्रं पूर्ववद् भावनीयमिति । मनःप्रभृतिसम्बधेनैवेदमपरमाह-'तिविहे करणे' इत्यादि कण्ठय, नवरं क्रियते येन तत् करण-मननादिक्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतः तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करण मनःकरण, एवमितरेऽपि, 'एव'मित्याद्यतिदेशसूत्रं पूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनःप्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात् । प्रकारान्तरेण करणत्रैविध्यमाह-'तिविहे' इत्यादि, आरम्भणमारम्भः-पृथिव्याधुपमईन, तस्य कृतिः-करण स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमय विशेषः-संरम्भकरण पृथिव्यादिविषयमेव मनःसङ्क्लेशकरण, समारम्भकरण-तेषामेव सन्तापकरणमिति, आह च-"संकप्पो संरंभो, परितावकरी
For Private & Personal use only
0-00-00-00-0000000000000000000000000000000000000000000000000
॥१३४॥
Jain Education
www.jainelibrary.ory