________________
सू०१२२-१२३ ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१३२॥
अप्पाणमेव अप्पणा विउब्विय २ परियारेइ २, एगे देवे णो अन्ने देवे णो अण्णेसिं देवाणं देवीओ अभिमुंजिय २ परियारेइ, णो अप्पणिज्जियाओ देवीओ अभिजु जिय २ परियारेइ, अप्पणामेव अप्पाण विउव्विय २ परियारेइ ३, (सू० १२२) । तिविहे मेहुणे ५० त०-दिब्वे माणुस्सए तिरिक्खजोणिए तओ मेहुणं गच्छति त०-देवा मणुस्सा तिरिक्खजोणिआ, तओ मेहुण सेवंति त-इत्थी पुरिसा णपुंसगा (सू० १२३)।
तिविहा परी'त्यादि, कण्ठयम् , नवरं परिचारणा-देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, | किम् ?-'अण्णे देवे'त्ति अन्यान् देवान्-अल्पर्धिकान् तथाऽन्येषां देवानां सत्का देवीश्चाभियुज्याभियुज्य-आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति-परिभुङ्क्ते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम् , मनुष्येष्वपि तथा श्रवणात् , न चात्रार्थे नरामरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथ?-आत्मना विकृत्य विकृत्य परिचारणायोग्यं विधायेति तृतीयः, एवं प्रकार त्रयरूपाप्येकेय परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात् , तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्दिकदेवविशेषस्वामिकत्वादिति ।। परिचारणेति मैथुनविशेष उकूतोऽधुना तदेव मैथुन सामान्यतः प्ररूपयन्नाह-'तिविहे मेहुणे' इत्यादि कण्ठयं, नवरं मिथुनं-स्त्रीपुंसयुग्मं तत्कर्म मैथुन, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थ नास्त्यवेति नोक्तम् । मिथुनकर्मण एव कारकानाह-'तो'
॥१३२॥
Jan Education
For Private & Personal use only
| www.jainelibrary.org