SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सू० १२०-१२१ । श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१३॥ సంహరించి శాంతించి వివరించిందించింది. | सा च नारकाणामप्यस्तीति नारकानिरूपयन्नाह-तिविहे'त्यादि नवरं 'कती'त्यनेन सङ्ख्यावाचिना द्वयादयः | सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कतिसङ्ख्याता एकैकसमये य उत्पन्नाः सन्तः सञ्चिताः-कत्युत्पत्तिसाधाद् बुद्धया राशीकृतास्ते कतिसञ्चिताः, तथा न कतिसङ्ख्याता इत्यकतिसङ्ख्याता अनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याता असङ्ख्याता एकैकसमये उत्पन्नाः सन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः, समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्तंच-“एगो व दो व तिम्नि व, संखमसंखा व एगसमएण । उववज्जंतेवइया, उबटुंता वि एमेव ॥१॥"त्ति, 'एव'मिति नारकवच्छेपाश्चतुर्विंशतिदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह च-"अणुसमयमसंखेज्जा संखेजाऊय तिरियमणुया य । एगिदिएसु गच्छे, आरा ईसाणदेवा य ॥१॥ एगो असंखभागो, वट्टइ उन्चट्टणोववायंमि । एगनिगोए निच्चं, एवं सेसेसु वि स एव ॥२॥"त्ति, अनन्तरसूत्रे कतिसञ्चितादिको धर्मों वैमानिकानां देवानामुक्तः, अधुना देवानां सामान्येन परिचारणाधर्मनिरूपणायाह तिविहा परियारणा पं० त०-एगे देवे अण्णे देवे अण्णेसि देवाण देवीओ अ अभिजुजिय २ परियारेइ, अप्पणिज्जिआओ देवीओ अभिजुजिय २ परियारेइ, अप्पाणमेव अप्पणा विउब्विय २ परियारेइ १, एगे देवे णो अण्णे देवे णो अण्णेसिं देवाणं देवीओ अभिजु जिय २ परियारेइ, अप्पणिज्जियाओ देवीओ अभिजुजिय २ परियारेइ, ॥१३॥ Jan Education For Private & Personal Use Only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy