________________
श्रीस्थानानसूत्र
सू० ११९।
दीपिका
वृत्तिः ।
॥१२९॥
1000000000000000000000000000000000000000000000000000000000
भव्यशरीरं तदेव द्रव्येन्द्रो (भव्येन्द्रो) भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थों-भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वान्मधुघटादिन्यायेनैव तद् बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, स द्रव्येन्द्रोऽवस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको योऽनन्तर एव भवे भावेन्द्रतयोत्पत्स्यत इति, स चोकर्पतस्त्रीणि पल्योपमानि भवति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्वन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, स चोत्कर्पतः पूर्वकोटीत्रिभागं यावत् , तस्मात् परतः आयुष्कबन्धाभावात् , अभिमुखे-संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहर्तानन्तरभावितया नामगोत्रे इन्द्रसम्बन्धिनी यस्य स तथा, इति द्रव्येन्द्रः । भावेन्द्रस्त्विह त्रिस्थानकानुरोधानोक्तः, तल्लक्षण चेदम्भावम्-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः, स चासाविन्द्रश्चेति भावेन्द्रः इति । इदानीं भावेन्द्र त्रिस्थानकावतारेणाह-'तओ इंदे'त्यादि कण्ठ्य, नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः परमेश्वरी ज्ञानेन्द्रः-अतिशयवच्छताद्यन्यतरज्ञानवशविवेचितवस्तुविसरः केवली वा, एवं दर्शनेन्द्रः-क्षायिकसम्यग्दर्शनी, चारित्रेन्द्रो-यथाख्यातचारित्रः, एतेषां च भावेन-सकल भावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः-परमार्थतो बेन्द्रत्वात्-सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद् भावेन्द्रताऽवसेयेति । उक्त| माध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्येश्वर्यापेक्षया तदेवाह-'तओ इंदे'त्यादि, भावितार्थ, नवरं देवा-वैमानिका ज्योतिष्कवैमानिका वा रूढेः, असुरा-भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात् , (सुरसादृश्यात् ), मनुजेन्द्रः-चक्रवर्त्यादिरिति ॥ त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाह
శాంతి శాంతి శాంతివంతరించి పరిశీలించి
అంతరించి ఉంది
| ॥१२९॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org