________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥१२७॥
Jain Education Inten
दितया निषेकः, स चैवं - प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं “जावुकोसियाए विसेसहीणं णिसिंचर "त्ति, बन्धनं तु तस्यैव ज्ञानावरणादितया निषितस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम् - अनुभवः, निर्जरा-कर्मणोऽकर्म ताभवनमिति । कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्रकालभावैर्द्धिस्थानकावतारेण निरूपयन्नाह - 'दुपएसिए'त्यादिसूत्राणि त्रयोविंशतिः, सुगमा चेयं, नवरं यावत्करणाद् 'दुसमयडिइए 'त्यादि सूत्राण्येकविंशतिर्वाच्यानि, काल पञ्चद्विपञ्चाष्टभेदान् वर्णगन्धरसस्पर्शा चाश्रित्येति वाचना चैव - 'दुसमपठितिया पोग्गले 'त्यादि । द्विस्थानकस्य चतुर्थोद्देशकः समाप्तः । तत्समाप्तौ च श्रीमत्तपोगच्छाधिराजसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमत्तपोगच्छशृङ्गारहारसूरिश्रीविजयदेवसूरीश्वरयौवराज्ये सकलवाचकशिरोमणिमहोपाध्याय श्रीविमलह पेगणिभिः संशोधितायां पण्डितश्री कुशलवर्द्धन गणिशिष्यनगपिंगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपायां श्रीस्थानाङ्गदीपिकायां द्वितीयस्थानकाव्य द्वितीयमध्ययनं समाप्तम् ॥
卐
★
55
द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्ता अस्याप्यध्ययनस्य प्रथमोद्देश त एवाभिधीयन्त इत्येवंसम्बन्धस्यैतत्प्रथमोदेशकस्य तत्राप्यनन्तरोदेशकान्त्यसूत्रे पुद्गलधर्मा उक्रेता एतत्प्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यादिसूत्रम् ।
For Private & Personal Use Only
सू० ११३-११८ |
॥१२७॥
www.jainelibrary.org