________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥१२६॥
Jain Education Intern
मुत्कृष्टा, जघन्या तु - "पलियं १ अहियं २ दो सार ३, साहिया ४ सत्त ५ दस य ६ चोदस य ७ । सत्तरस सहस्सारे ८ तदुवरि एक्केकमारोवे ||" । देवलोकप्रस्तावात् स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह'दोसु' इत्यादि, कल्पयोर्देवलोकयोः स्त्रियः कल्पस्त्रियो- देव्यः, परतो न सन्ति, शेषं कण्ठ्यम् १, नवरं 'तेउलेस 'ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च सौधर्मेशानयोरेव न परतः, तयोश्च तेजोलेश्या एव, नेतरे, आह च - " किण्हा नीला काऊ, तेउलेसा य भवणवंतरिया । जोइस सोहम्मीसाण, तेउलेस्सा मुणेयव्वा"त्ति, "काय परियारग'त्ति परिचरन्ति सेवन्ते स्त्रियमिति परिचारकाः, कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः, आनतादिषु चतुर्षु कल्पेषु मनः परिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद 'दो इंदा' इत्युक्तम्, आनतादिषु हि द्वाविन्द्राविति - "दो कायष्पवियारा, कप्पा फरिसेण दोणि दो रूवे । सदे दो चउर मणे, उवरिं परियारणा नत्थि ||" इयं च परिचारणा कर्मतः, कर्म च जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्वन्तीत्याह - 'जीवाण' मित्यादि, सूत्राणि पट् स्रुगमानि, नवरं, जीवा - जन्तवो, ण वाक्यालङ्कारे, द्वयोः स्थानयोः सस्थावरकायलक्षणयोः समाहारो द्विस्थानं, तत्र मिथ्यात्वादिभिर्ये निर्वर्त्तिताः - सामान्येनोपार्जिता वक्ष्यमाणावस्थापट्कयोग्यीकृता द्वयोर्वा स्थानयोर्निवृत्तिर्येषां ते द्विस्थाननवृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-धातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयन च कपायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम् उपचयनं तु चितस्यावाघाकाल' मुक्त्वा ज्ञानावरणीया
For Private & Personal Use Only
सू० ११३-११८ ।
॥१२६॥
www.jainelibrary.org