________________
श्रीस्थानाङ्ग
सू०१०९-११०
१११-१.२
दीपिका वृत्तिः ।
1000000000000000000000000000000000000000000000000000000
वर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् , धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिका:-साधवस्तेषामियं धार्मिकी सा चासावाराधना च धार्मिकाराधना, केवलिनां-श्रुतावधिमनःपर्यायकेवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवलिकाराधनेति । 'सुयधम्मे'त्यादौ विषयभेदेनाराधनाभेद उक्तः, 'केवलिआराहणे'त्यादौ तु फलभेदेनेति, तत्र अन्तोभवान्तस्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति उपचारात्, एषा च क्षायिकज्ञाने केवलिनामेव भवति । तथा 'कल्पेसु' देवलोकेषु, न तु ज्योतिश्चारे, विमानानि-देवावासविशेषाः अथवा कल्पाश्च-सौधर्मादयो विमानानि च-तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः-उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता परम्परया तु भवान्तक्रियाऽनुपातिन्येवेति । तीर्थ करान् द्विस्थानकानुपातेनाह-'दो तित्थयरे'त्यादि सूत्रचतुष्टय कण्ठय, नवरं पद्म-रकोपलं तद्वद् गौरी, पद्मगौरौ, रक्तावित्यर्थः, तथा चन्द्रगौरौ चन्द्रशुभ्रावित्यर्थः। तीर्थकरस्वरूपमनन्तरमुक्तम् , तीर्थ कर्तृत्वात् तीर्थ कराः, तीर्थं च प्रवचनमिति प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकावतारायाह
सच्चप्पवायपूव्वस्स ण दुवे वत्थू पं० त० सुभनामे चेव असुभनामे चेव (सू० १०९) पुबाभद्दवयाणक्खत्ते दुतारे ५०, उत्तरभद्दवयाणक्खत्ते दुतारे ५०, एवं पुवाफग्गुणी उत्तराफग्गुणी (सू० ११०) अंतो णमणुस्सखेत्तस्त दो समुद्दा ५० त० लवणे चेव कालोदे चेव (सू० १११) दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढबीए अपइट्ठाणे णरए णेरइयत्ताए उववण्णा त-सुभूमे चेव बंभदत्ते चेव (सू० ११२) ।
For Private & Personal use only
0000000000000000000000000000000000000000000000000000001
॥१२३॥
Jain Education internet
how.jainelibrary.org