________________
सू०
१०२।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥११८॥
10000000000000000000000000000000000000000000000000000000004
वाचा उक्ते उपादेयस्वरूपतः पाठान्तरेण 'पूजिते वा' तत्कारिपूजनतः 'प्रशस्ते' प्रशंसिते श्लाधिते, 'शंसु स्तुता विति वचनात् , 'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति, 'वलायमरण'ति वलतां-संयमानिवर्तमानानां परीषहादिवाधितत्वात् मरणं वलन्मरण, 'वसट्टमरण"ति इन्द्रियाणां वशम्-अधीनतां ऋतानां-गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरण वशार्त्तमरणमिति, एवं 'णियाणे त्यादि, 'एव मिति 'दो मरणाई समणेण' इत्याद्यमिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानं, तत्पूर्वक मरण निदानमरण, यस्मिन् भवे वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्वध्वा पुनम्रियमाणस्य मरण तद्भवमरणम् , एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव तद्भवायुर्बन्धी भवतीति, उक्त च-"मोत्तुं अकम्मभूमग-नरतिरिए सुरगणे य णेरइए । सेसाण जीवाण, तब्भवमरणं तु केसिंचि ॥१॥"त्ति, 'सत्थोवाडणे त्त, शस्त्रेण-क्षुरिकादिना अवपाटन-विदारण स्वशरीरस्य यस्मिंस्तच्छस्त्रावपाटनम् , 'कारणे पुणे'त्यादि, शीलभङ्गरक्षणादौ पाठान्तरे तु कारणेन अप्रतिक्रुष्टे-अनिवारिते भगवता, वृक्षशाखादावुद्वद्धत्वाद् विहायसि नभसि भवं वैहायस प्राकृतत्वात्तु 'वेहाणस'मित्युक्तमिति, गृधैः स्पृष्ट-स्पर्शन यस्मिंस्तद् गृध्रस्पृष्टम् , यदि वा गृध्राणां भक्ष्य पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोयस्मिस्तद् गृध्रपृष्ठमिति, एते द्वे मरणे कारणे जातेऽभ्यनुज्ञाते इति । अप्रशस्तमरणानन्तरं तत् प्रशस्तं भव्यानां भवतीति तदाह-'दो मरणाई'इत्यादि, पादपो-वृक्षः, तस्येव छिन्नपतितस्योपगमनम्-अत्यन्तनिश्चेष्टतयाऽवस्थान यस्मिंस्तत्पादपोपगमन, भक्त-भोजन तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यान-वर्जन यस्मिंस्तद् भक्तप्रत्याख्यानमिति, 'णीहारिमति यद्वसतेरेकदेशे विधीयते, तत्ततः शरीरस्य निर्हरणात्-निस्सारणान्निारिम,
॥११८॥
Jain Education
For Private & Personal use only
www.jainelibrary.org