________________
सू० १०२।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥११७॥
येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः १२ । | 'ससरीरि'त्ति, सह यथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेः सशरीरिणः-संसारिणोऽशरीरिणस्तुशरीरमेषामस्तीति शरीरिणस्तनिषेधादशरीरिणः-सिद्धाः १३ ॥ एते च संसारिणः सिद्धाश्च मरणामरणधर्मकाः, अप्रशस्तप्रशस्तमरणतश्चैते भवन्तीति प्रशस्ताप्रशस्तमरणनिरूपणाय नवसूत्रीमाह
दो मरणाई समणेण भगवया महावीरेण समणाणणिग्गंथाण णो णिच्च वनियाई णो णिच्चं कित्तियाई णो णिच्चं पूइयाई णो णिच्चं पसत्थाई णो णिच्च अभणुण्णायाई भवंति, तंजहा-वलायमरणे चेव वसट्टमरणे चेव १, एवं णियाणमरणे व तब्भवमरणे चेव २, गिरिपडणे चेव तरुपडणे चेव ३, जलप्पवेसे चेव जलणप्पवेसे चेव ४, विसभक्खणे चेव सत्थोवाडणे चेव ५, दो मरणाई णिच्च णो अब्भणुण्णायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई तं. वेहाणसे चेव गिद्धपिटूठे चेव ६, दो मरणाई समणेणं भगवया महावीरेण समणाणं णिग्गंथाणं णिच्च वन्नियाई जाव अब्भणुण्णयाई भवति, त-पाओवगमणे चेव भत्तपच्चक्खाणे चेव ७, पाओवगमणे दुविहे पं० तंणीहारिमे चेव अणीहारिमे चेव णियम अपडिकम्मे ८, भत्तपच्चक्खाणे दुविहे पंत-णीहारिमे चेव अणीहारिमे चेव णियम सपडिकम्मे ९ (सू० १०२)
दो मरणाई'इत्यादि कण्ठय, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्ति-तपस्यन्तीति श्रमणास्तेषां, ते च शाक्यादयोऽपि स्युः, यथोक्त-"निग्गंथ १ सक्क २ तावस ३, गेरुय ४ आजीव ५ पंचहा समणा" इति तद्वयवच्छेदार्थ माह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः-साधवस्तेषां नो नित्य-सदा 'वर्णिते' तांस्तयोः प्रवर्तयितुमुपादेयफलतया नाभिहिते कीर्तिते-नामतः संशब्दिते उपादेयधिया 'बुइयाई ति व्यक्त
॥११॥
Jan Education in
For Privals & Fersonal use only
www.jainelibrary.org