________________
सू०१००-१०१।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥११६॥
सन्ति ?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह-'दुविहा सव्वे'त्यादिकं, कण्ठया चेय', नवर सेन्द्रियाःसंसारिणोऽनिन्द्रियाः-अपर्याप्तककेवलिसिद्धाः २, एवं एस'त्ति, 'एवं सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सव्वजीवे 'त्यादिलक्षणेन एषा-चक्ष्यमाणा प्रस्तुतसूत्रसग्रहगाथा स्पर्शनीया-अनुसरणीया । 'सिद्ध'गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं 'काए'त्ति, कायाः पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैव- सकायच्चेव अकायच्चेव' 'सकाया' पृथिव्यादिषविधकायविशिष्टाः संसारिणः, अकायास्तद्विलक्षणाः सिद्धाः ३, सयोगा-संसारिणः अयोगा-अयोगिनः सिद्धाश्च ४, वेदेत्ति सवेदाः-संसारिणः अवेदाः अनिवृत्तिबादरसम्परायविशेषादयः पट् सिद्धाश्च ५, 'कसाय'त्ति, सकपायाः-सूक्ष्मसम्परायान्ताः अकषाया-उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, 'लेसा यत्ति, सलेश्याः-सयोग्यन्ताः संसारिणः अलेश्याः-अयोगिनः सिद्धाश्च ७, 'नाणे'त्ति, ज्ञानिनः सम्यग्दृष्टयोऽज्ञानिनो-मिथ्यादृष्टयः ८, 'उवओगे'त्ति, सागारोवउत्ते चेव अणागारोवउत्ते चेव त्ति, साकारेण-विशेषांशग्रहणशक्तिलक्षणेन वर्तते य उपयोगः स साकारो ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः , अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च-"जं सामनग्गहण, भावाण नेय कटु आगारं । अविसेसिऊण अत्थे, दंसणमिति बुच्चए समए ॥२॥"त्ति, तेनोपयुक्ता अनाकारोपयुक्ता इति ९, आहारे'त्ति, आहारका-ओजोलोमकवलभेद भिन्नाहारविशेषग्राहिणः, अनाहारकास्तु “विग्गहगइमावण्णा१ , केवलिणो समोहया २ अजोगी य ३। सिद्धा ४ य अणाहारा, सेसा आहारगा जीवा ॥१॥"त्ति, १० । 'भास'त्ति, भाषका-भाषापर्याप्तिपर्याप्तकाः अभाषका:-तदपर्याप्तकाः अयोगिनः सिद्धाश्च ११, 'चरम'त्ति, चरमा
0000000000000000000000000000000000000000000000000000000000
Jan Education
For Private & Personal use only
www.iainelibrary.org