SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सू० १००-१०१। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१५॥ -00000000000000000000000000000000000000000000000000000000 पल्योपमानां कोटीकोटी भवेद् दशगुणिता यदिति गम्यते दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत् परिमाणमिति ॥ एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणायाह दुविहे कोहे पं० त०-आयपतिट्टिए चेव परपतिट्टिए चेव, एवणेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादसणसल्ले (सू० १००)। दुविहा संसारसमावन्नगा जीवा ५० त-तसा चेव थावरा चेव, दुविहा सब्बजीवा पं० २०-सिद्धा चेव असिद्धा चेव, दुविहा सव्वजीवा पं० त०-सइंदियच्चेव अणिदियच्चेव, एवं एसा गाहा फासेयव्वा जाव ससरीरी चेव असरीरी चेव-"सिद्धसईदियकाए, जोए वेए कसाय लेसा य । णाणुवओगाहारे, भासग चरिमे य ससरीरी ॥१॥" (सू० १०१)। 'दुविहे ति आत्मापराधादेहिकापायदर्शनादात्मनि प्रतिष्ठितः-आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठित-उदीरितः परस्मिन् वा प्रतिष्ठितो-जातः परप्रतिष्ठित इति । 'एव'मिति यथा सामान्यतो द्विधा क्रोध उक्त एवं नारकादीनां चतुर्विशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादिपूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मपरप्रतिष्ठितविशेषणानि सामान्यपदपूर्वक चतुर्विंशतिदण्डकेनाध्येतव्यानि, अत एवाह"एवं जाव मिच्छादंसणसल्ले'त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्तिपरात्मवतिभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितात्रयोदश दण्डका इति ॥ उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह-'दुविहे'त्यादि कण्ठयम् । ननु संसारिण एव जीवा उतान्येऽपि 1000000000000000000000000000000000000000000000000000 Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy