SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥११४॥ Jain Education Internationa वालासइयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवर प्रतिसमय मे कैका काशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उद्भियन्ते स कालो व्यावहारिक इति, यावता च वालाग्रासख्यातखण्डैः स्पृष्टा अस्पृष्टाश्रोड्रियन्ते स कालः सूक्ष्म इति एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिंवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोर्निरुपयोगित्वादद्धौपमिकस्यैव चोपयोगित्वाद् अद्धेतिविशेषण सूत्रे उपात्तमिति, अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकारः - ' से किं तमित्यादि, अथ किं तत् पल्योपमं ?, यदद्धौपमिकतया निदिष्टमिति प्रश्ने निर्वचनमेतदनुवादेनाह - 'पलिओ मे 'त्ति, पल्योपममेव भवतीति वाक्यशेषः, 'ज' गाहा, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात् सर्वतो यद्योजनप्रमाणं पल्यं - धान्यस्थानविशेषः, एकाह एव ऐकाहिकस्तेन प्ररूढानां - वृद्धानां मुण्डिते शिरसि एकेनाका यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोट्यो - विभागाः सूक्ष्मपल्योपमापेक्षयाऽसङ्ख्येयखण्डाि बादरपल्योपमापेक्षया तु कोट्यः - सङ्ख्याविशेषाः तासां किं भवेत् ? - 'भरित 'भृतं कथमित्याह - 'निरन्तर'निचित' निविडतया निचयवत् कृतमिति 'वासा' गाहा, एतस्मात् पल्याद् वर्षशते वर्षशते व्युत्क्रान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रेऽसङ्ख्येयखण्डे चापहृते सति 'यः कालो'यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह - 'उपमा' उपमेयः कस्येत्याह-एकस्य पल्यस्य इदमुक्तं भवति स काल एकं पल्योपमं सूक्ष्मं व्यावहारिक' चोच्यत इति । 'एएसिं" गाहा, एतेषाम् उक्तरूपाणां सूक्ष्मवादराणां 'पल्याना' For Private & Personal Use Only सू० ९९ । ॥११४॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy