________________
सू० ९८
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥११२॥
अथवा शरीरकं देशतः संवर्त्य हस्तादिसङ्कोचनेन सर्वतः-सर्वशरीरसङ्कोचनेन पिपीलिकावदिति । आत्मनश्च संवर्तनं कुर्वन् शरीरस्य निवर्त्तन करोतीत्याह-एवं 'निवयित्ताण'ति, तथैव निर्वर्त्य-जीवप्रदेशेभ्यः पृथक कृत्वेत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतो, अथवा देशतः शरीरं निर्वात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अनन्तरं सर्वनिर्याणमुक्तम् , तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह
दोहि ठाणेहि आता केवलिपन्नत्तं धम्म लभेज्जा सवणताते, त०-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेज्जा, तं०-खतेण चेव उवसमेण चेव । (सू० ९८)
दोही त्यादि कण्ठय, नवरं 'खएण चेव'त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण उदयप्राप्तस्य क्षयेण-निर्जरणेन अनुदितस्य चोपशमेन-विपाकाननुभवेन क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झज्जा मुंडे भवित्ता अगाराओ अणगारिय पन्चएज्जा केवल बंभचेरवासमावसेज्जा, केवलेण संजमेण संजमेज्जा, केवलेण संवरेण संवरेज्जा, केवलं आभिणिवोहियणाणं उप्पाडेजा इत्यादि दृश्यम् , एवं यावन्मनःपर्यायज्ञानमुत्पादयेदिति, केवलज्ञान तु क्षयादेव भवतीति तन्नोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिवोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयेनातः स एव व्याख्यात इति । बोध्याभिनिवोधिकश्रुतावधिज्ञानानि च षट्पष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयारूपणामाह
+00000000000000000000000000000000000000000000000.
॥११२॥
Jain Education
For Private & Fersonal use only
www.jainelibrary.org