________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
॥ १११ ॥
Jain Education Internat
'पृष्ट्वा ' श्लिष्ट्वा 'निर्याति' शरीरान्मरणकाले निःसरतीति, 'सत्रेणावि'त्ति सर्वेण सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दु कगत्योपादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि देशतोऽपि, अपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं, कोऽर्थ : ? - शरीरदेशं पादादिकं स्पृष्ट्वा अवयवान्तरेभ्यः प्रदेशसंहारान्निर्याति स च संसारी, 'सर्वणापि' सर्वतयाऽपि, अपिर्देशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, स च सिद्धो वक्ष्यति च - " पायणिज्जाणा णिरएसु उववज्र्ज्जती" त्यादि, यावत् " सव्वंग निज्जाणा सिद्धेमु "त्ति । आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवत्यत उच्यते- 'एव' मित्यादि, 'एव' मिति 'दोहि ठाणेही 'त्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले 'सवेणवित्ति सव्वैरपि गेन्दुकगतिकाले शरीरं 'फुसित्ताण 'ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः - सर्व शरीर स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति । स्फोरणाच्च सात्मकत्व स्फुटं भवतीत्याह - 'एवमित्यादि, 'एव' मिति तथैव देशेन - आत्मदेशेन शरीरकं 'फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरं देशतः - सात्मकतया स्फुट ं कृत्वा पादादिना निर्याणकाले सर्वतः - सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा फुडित्ता-स्फोटयित्वा विशीर्ण कृत्वा तत्र देशतोऽक्ष्यादिविघातेन सर्वतः सर्व विशरणेन देवदीपादिजीववदिति । शरीरं सात्मकतया स्फुटीकुर्वं स्तत्संवर्तनमपि कश्चित् करोतीत्याह - 'एव' मित्यादि, 'एव' मिति तथैव, 'संवत्ताणं 'ति संवर्त्य - सङ्गकोच्य शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति,
For Private & Personal Use Only
सू० ९७ ।
॥ १११ ॥
www.jainelibrary.org