________________
सू०९७
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥११०॥
000000000000000000000000000000000000000000000000000000
निबन्धनत्वात् , न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति-स्पृष्टाद्यवस्थं कुर्वन्ति, रागेण चैव द्वेषेण चैव कपायरित्यर्थः, ननु मिथ्यात्वाविरतिकपाययोगा बन्धहेतवः तत्कथ कवाया एवेहोक्ता इत्युच्यते-कषायाणां पापकर्मबन्ध प्रति प्राधान्यख्यापनार्थ, प्राधान्यं च स्थित्यनुभागप्रकर्षकारणत्वात्तेपामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तश्च-"को दुक्ख पाविजा, कस्स व सुकूखेहिं विम्हओ होजा । को व न लहेज मोक्खं ?, रागद्दोसा जइ न होज्जा ॥१॥" इति, उक्तस्थानद्वयवद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह-'जीवे'त्यादि गतार्थम् , नवरं उदीरयन्ति अप्राप्तावसरं सदुदये प्रवेशयन्ति, अभ्युपगमेन-अङ्गीकरणेन निवृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचतपश्चरणादिकया वेदनया-पीडया उपक्रमेण-कर्मोदीरणकारणेन निवृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वरातीसारादिजन्यया 'एव मिति उक्तप्रकारत एव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरित सदिति, 'निर्जरयन्ति' प्रदेशेभ्यः शाटयन्तीति । निर्जरणे च कर्मणो देशतः सर्वथा वा भवान्तरे सिद्धौ वा गच्छतः श्रीरानिर्याणं भवतीति सूत्रपञ्चकेनाह
दोहि ठाणेहि आता सरीरं फुसित्ताणं णिज्जाति, तं०-देसेणवि आता सरीरं फुसित्ताणं णिजाति सवेणावि आया सरीरगं फुसित्ताणं णिज्जाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निचट्टतित्ता । (सू० ९७)
___'दोही'त्यादि कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणाव'त्ति देशेनापि-कतिपयप्रदेशलक्षणेन केषाञ्चित्प्रदेशानामीलिकागत्योत्पादस्थान गच्छता जीवेन शरीराद् बहिः क्षिप्तत्वात् , 'आत्मा'-जीवः, 'शरीर' देह
॥११०॥
Jan Education
For Private & Personal use only
www.jainelibrary.ory