________________
श्रीस्थानाङ्ग
सूत्रदीपिका
सू० ९६
वृत्तिः ।
॥१०॥
.000000000000000000000000000000000000000000000000000000
__ दुविहे बंधे ५०, तं०-पेज्जबंधे चेव दोसबंधे चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं बंधति, तं०-रागेण चेव दोसेण चेव, जीवा णं दोहि ठाणेहि पावं कम्म उदीरें ति, तं०-अम्भोवगमियाए चेव वेदणाए उवक्कमियाए चेव वेयणाए, एवं वेदेति एवं निज्जरेंति-अब्भोवगमियाए चेव वेयणाए उवक्कमियाए चेव वेयणाए । (सू०९६)
प्रेम-रागो मायालोभकपायलक्षणो, द्वेषस्तु क्रोधमानकषायलक्षणो, यदाह-"माया लोभकषायश्चेत्येतद् रागसंज्ञित द्वन्द्वम् । क्रोधो मानश्च पुनद्वैप इति समासनिर्दिष्टः ॥१॥" इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकर्मपुद्गलराशेवयन-जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादन च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषवन्ध इति, उक्त हि"जोगा पयडिपएसं, ठितिअणुभागं कसायओ कुणइ"त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह-'जीवाण'मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेपतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनां स योगप्रत्यय एव, स तु बन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात् , यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम् , उक्त च-"अप्पं बायर मउयं, बहु च रुख च मुक्केिल चेव । मंदं महव्वयं ति य, सायाबहुलं च त कम्म ॥१॥"ति, अल्पं स्थित्या बादरं परिणामतः मृद्वनुभावतः बहु प्रदेशः मन्दं लेपतो वालुकावत् , महाव्ययं सर्वापगमात् । एतदेव दर्शयन्नाह'जीवा णमित्यादि, जीवाः-सत्त्वाः ण वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्यां' कारणाभ्यां पापम्-अशुभमशुभभव
॥१०॥
Jain Educatan
For Private & Personal use only
|www.jainelibrary.org