________________
,
सू०९५।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१०८॥
यानि-पृथिवीनां वेष्टनानि घनोदधिधनवाततनुवातलक्षणानीति, विग्रहा-लोकनाडीवक्राणि, जीवता चैषां पूर्ववत् १६, द्वीपाः समुद्राश्च प्रतीताः १७, वेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीताः १८, द्वाराणि-विजयादीनि, तोरणानि तेष्वेवेति १९, नैरयिकाः - किलष्टसत्त्वविशेषाः, तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिकावासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुविशतिदण्डकोऽभिधेयः ४३, अत एवाह'यावदि'त्यादि, कल्पा:-देवलोकास्तदंशाः कल्पविमानावासाः ४४, वर्षाणि-भरतादिक्षेत्राणि वर्षधरपर्वताः-हिमवदादयः ४५, कूटानि-हिमवत्कूटादीनि कूटागाराणि-तेष्वेव देवभवनानि ४६, विजयाः-चक्रवर्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः क्षेमादिकाः, 'जीवे'त्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति ४७ । येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह-'छायेत्यादिसूत्रपञ्चकं गतार्थम् , नवरं छाया वृक्षादीनाम् , आतप आदित्यस्य, 'जोसिणाति वत्ति ज्योत्स्ना-चन्द्रप्रकाशः, अन्धकाराणि-तमांसि, अवमानानि-क्षेत्रादीनां प्रमाणानि हस्तादीनि, उन्मानानि-तुलायाः कर्षादीनि, अतियानगृहाणि-नगरादिप्रवेशे यानि गृहाणि, उद्यानगृहाणि प्रतीतानि, 'अवलिंबा सणिप्पवाया य' रूढितोऽवसेया इति, किमेतत् सर्वमित्याह-जीवा इति च, जीवव्याप्तत्वात् तदाश्रितत्वाद् वा, अजीवा इति च पुद्गलाद्यजीवरूपत्वात् तदाश्रितत्वाद्वेति, प्रोच्यते-जिनः प्ररूप्यत इति । इह च 'जीवाइ येत्यादि मूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति । अथ समयादिवस्तु जीवाजीवस्वरूपमेव कस्मादभिधीयते ?, उच्यते, तद्विलक्षणराश्यन्तराभावाद् अत एवाह-'दो रासी'त्यादि कण्ठ्यम् । जीवराशिश्च द्विधा-बद्धमुक्तभेदात् , तत्र बद्धानां बन्धनिरूपणायाह
ఉంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంంం
॥१०८॥
Jan Education
et
For Privals & Personal use only
www.iainelibrary.ory