SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥१०७॥ Jain Education Internatio पल्योपमाद्युपन्यासः, तत्र पल्येनोपमा येषु तानि पल्योपमानि - असङ्ख्यातवर्षकोटी कोटी प्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि- पल्योपमकोटी कोटी दशकमानानि दशसागरोपमकोटी कोट्य उत्सर्पिणी, एवमेवावसर्पिणीति । कालविशेषवद् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह - 'गामेत्यादि, इह च प्रत्येकं 'जीवाइ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि १, निगमाः वणिग्निवासाः, राजधान्यो- यामु राजानोऽभिषिच्यन्ते २ खेटानि - धूलिप्राकारोपेतानि कर्बटानि-कुनगराणि ३, मडम्बानि सर्वतोऽर्द्धयोजनात् परतो ऽवस्थितग्रामाणि द्रोणमुखानि येषां जलस्थलपथावुभावपि स्तः ४, पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा लोहाद्युत्पत्तिभूमयः ५, आश्रमाः - तीर्थस्थानानि संवाहाः - समभूमौ कृषिं कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति ६, सन्निवेशा: सार्थकटकादे: घोपा-गोष्ठानि ७, आरामाविविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति उद्यानानि पत्रपुष्प - फलच्छायोपभोगादिवृक्षोपशोभितानि बहुजनस्य विविधवेपस्योन्नतमानस्य भोजनार्थं यानं गमनं येष्विति ८, वनान्येकजातीयवृक्षाणि, वनखण्डाः - अनेकजातीयोत्तमवृक्षाः ९, वापी चतुरस्रा पुष्करिणी वृत्ता पुष्करवती वेति १०, सरांसि - जलाशयविशेषाः, सरपक्तयः - सरसां पद्धतयः ११, 'अगड'त्ति अवटा : - कूपाः, तडागादीनि प्रतीतानि १२, पृथिवी - रत्नप्रभादिका १३, उदधिः - तदधो घनोदधिः १४, वातस्कन्धाः - घनवाततनुवाता इतरे वा अवकाशान्तराणि वातस्कन्धानामधस्तादाकाशानि जीवता चैां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् १५, बल For Private & Personal Use Only सू० ९५ । ॥१०७॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy