________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१०६॥
02800000000000000000000000000000000000000000000000000000000
एव तस्यापि गृहीतत्वादिति, इह त्वभेदनयाश्रयणात् 'जीवाइ वा' इत्याधुक्तम् , इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, 'आणापाणू 'इत्यादि, 'आनप्राणा'विति-उच्छ्वासनिःश्वासकालः सङ्ख्यातावलिकाप्रमाणः, आह च-"हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासणीसासे, एस पाणुत्ति वुच्चइ ॥१॥" तथा स्तोकाः सप्तोच्छ्वासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, मुहूर्ताः-सप्तसप्ततिलवप्रमाणाः, 'अहोरत्त'त्ति अहोरात्राः त्रिंशन्मुहर्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमाना वसन्ताद्याः, अयनानि ऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम्"पुव्वस्स य परिमाणं, सयरिं खलु होति कोडिलकखाओ । छप्पण्णं च सहस्सा, बोद्धव्या वासकोडीणं॥१॥" ति, (७०५६०००,०००००००), पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथा- "इच्छियठाणेण गुणं, पणसुन चउरसीइगुणियं च । काऊणं तइवारे, पुव्यंगाईण मुण संखं ॥१॥" शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरावतेषु सुषमदुष्पमायाः पश्चिमे भागे नरतिरश्वां चायुर्मीयत इति, किञ्च-शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, स चानतिशयिनां न व्यवहारविषय इतिकृत्वौपम्ये प्रक्षिप्तः, अत एव इ.पप्रहेलिकायाः परतः
॥१०६॥
Jan Education
For Private & Personal use only
www.iainelibrary.org