________________
सू० ९५।
श्रीस्थानाङ्ग
सुत्रदीपिका वृत्तिः । ॥१०॥
जीवाइ वा अजीवाइ वा पउच्चइ ४७ । छायाइ वा आतबाइ वा जोसिणाइ वा अंधगाराइ वा उमाणाइ वा ओमा. णाइ वा अतियाणगिहाइ वा उज्जाणगिहाइ वा अवलिंबाइ वा सणिप्पवायाति वा जीवाइ वा अजीवाइ वा पवुच्चइ । दो रासी पंत-जीवरासी चेव अजीवरासी चेव (सू० ९५) । एषां चानन्तरसूत्रेणायमभिसम्बन्धः-पूर्वत्र जीवविशेषाणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिस्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनेवोच्यते इति, तत्र सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदाधुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचनमित्याह-'समयाइ वा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत् कालवस्तु तदविगानेन जीवा इति वा जीवपर्यायत्वात् , पर्यायपर्यायिणोश्च कथञ्चिदभेदात् , तथा अजीवानां-पुद्गलादीनां पर्यायत्वादजीवा इति च, चकारौ समुच्चयायौँ, दीर्घता च प्राकृतत्वात् , प्रोच्यते-अभिधीयत इति, न जीवादिव्यतिरेकेण (०व्यतिरेकिणः) समयादयः, तथाहि-जीवाजीवानां सादिसपर्यवसानादिभेदा या स्थितिः तुभेदाः समयादयः, सा च तद्धमों धर्मश्च धर्मिणो नात्यन्तं भेदवान् , अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषाद, दृश्यते च कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरित किमपि शुक्लं पश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत
॥१०॥
Jain Education Intim
For Private & Personal use only
www.jainelibrary.org