SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रहरमेकमिति । तथा स मिक्षुराहारोपधिशयनस्वाध्यायाध्ययनादीनां मात्रां जानातीति तद्विधिज्ञः, अन्यतरां दिशमनुदिशं वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत्-प्रतिपादयेत्, यद्येन [ साधुना गृहस्थेन वा] विधेयं तद्यथायोग विभजेत् धर्मफलानि च कीर्तयेत् । परहितार्थ प्रवृत्तेन साधुना सम्यगुपस्थितेषु वा [अनुपस्थितेषु] कौतुकादिप्रवृत्तेषु 'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेत् ' कथयेत् । यत्कथयेत्तदर्शयितुमाह संतिविरति उवसमं निवाणं सोयवियं अजवियं मद्दवियं लावियं अणतिवातियं, सन्वेसिं | पाणाणं, सत्वेसि भूताणं जाव सव्वेसिं सत्ताणं अणुवीइ किट्टए धम्मं । व्याख्या-शान्ति-रुपशमः क्रोधजयः 'विरतिः' प्राणातिपातादिभ्यः शान्तिविरतिस्ता कथयेत । तथोपशम इन्द्रि. यनोन्द्रियोपशमरूपं रागद्वेषामावजनितं, तथा निर्वृतिं निर्वाणं, तथा ' शौचं ' तदपि भावशौचं सर्वोपाधिविशुद्धं व्रतामालिन्यं 'अजवियं' आर्जवं मायारहितत्वं, तथा 'मार्दवं' मृदुभावः अकठोरत्वं सर्वत्र प्रश्रयत्वं विनयनम्रता, तथा 'लाघवियं' कर्मणां लाघवापादनं । साम्प्रतं सर्वशुमानुष्ठानानां मूलकारणमाह 'अतिपातः' प्राण्युपमईनं, तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत् सच्चानां धर्ममनुविचिन्त्य कथयेत् , सर्वप्राणिनां रक्षानिमित्तभूतं धर्म कथयेत् । से भिक्खू धम्म किट्टेमाणे णो अन्नस्स हेउंधम्ममाइक्खेज्जा, नो पाणस्स हेउं धम्ममाइक्खेज्जा, Jan Education For Private & Personal use only wwwjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy