________________
सत्र IN दीपिकान्वितम् । ॥ २७॥
पुवं तहा अवरं जहा अवरं तहा पुवं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव । ___व्याख्या-इह जगति विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्माः सपरिग्रहाः, इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेत्-अहमेवात्र खल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतनिश्रया-तदाश्रयेण 'ब्रह्मचर्य' श्रामण्यमाचरिष्यामः, अनारम्भा अपरिग्रहाः सन्तो धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भसपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिष्याम इति । ननु च यदि तन्निश्रया विहर्तव्यं किमर्थं पुनस्ते त्यज्यते ? इति जाताशङ्कः कश्चित्पृच्छति-'कस्य हेतोः' केन कारणेन तदेतद्गृहस्थश्रमणब्राह्मण त्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति-"जहा पुवं तहा अवरं" यथा पूर्व-मादौ सारम्भपरिग्रहत्वं तेषां तथा 'पश्चादपि' सर्वकालमपि
कालमाप गृहस्थाः सारम्भादिदोषदुशाः, श्रमणाश्च केचन यथा 'पूर्व' गृहस्थभावे सारम्भाः सपरिग्रहास्तथा “[अ]परस्मिन्' प्रव्रज्याकाले तथाविधा एव सारम्भाः सपरिग्रहाः प्रवर्त्तन्ते, तथा 'जहा अवरं तहा पुव्वं यथा 'अपरं' अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावादावपीति, यदि वा कस्य हेतोस्तद्गृहस्थाद्याश्रयणं क्रियते ? यतिनेत्याहयथा 'पूर्व ' प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं वर्तते तथा पश्चादपि, अतः कथं नु नामानवद्या वृत्तिविप्यतीत्यतः साधुभिरनारम्मैः सारम्भाश्रयणं विधेयम् । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दर्शयितुमाह-'अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव' अंजू इति व्यक्तं-स्पष्टमेतदेते गृहस्थादयोऽथवा 'अंजू' इति प्रगुणेन न्यायेन सावद्यानुष्ठानेम्य ' अनुपरता' अनिवृत्ताः परिग्रहारम्भाच्च सत्संयमा
द्वितीये I श्रुत आयेऽध्ययनेज्यदर्शनीनां सारम्मसपरिग्रहत्वम्।
G
॥२७॥
For Private & Personal Use Only
wwwjainelibrary.org