SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम् ।। द्वितीये श्रुत. आयेऽध्य यने संसारा ॥२६॥ सारता भवत्सु सन्धिबन्धनेषु बलादवश्यं भ्रश्यते । तथा वर्णाचचश्छायातोऽपचीयते । अत्र सनत्कुमारचक्रिणो दृष्टान्तो वाच्यः। तथा जीर्यति शरीरे श्रोत्रादीन्द्रियाणि हीयन्ते । तथा च वयोहान्या ' सुसन्धितः' सुबद्धः 'सन्धि' र्जानुकूपरादिको विसन्धिर्भवति-विग[लि]तवन्धनो जायते । तथा वलितरङ्गाकुलं सर्वतः शिरा( नाड़ी )जालवेष्टितमिदं वपुरुद्वेगकुद्भवति । तथा कृष्णाः केशाः वयोहान्या धवला जायन्ते । ततो वयःपरिणामे सन्मतिरेवं भावयेत् , तथाहि-यदपीदं शरीरं उदारशोमं विशिष्टाहारोपचितं एतदपि ममावश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येतदवगम्य-संख्याय परित्यक्तसमस्तगृहप्रपञ्चो निष्किञ्चनतामुपगम्य संयमयात्राऽर्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयात् । तदेव लोकद्वैविध्यं दर्शयति-'जीवा चेव अजीवा चेव, तसा चेव थावरा चेव' तत्र जीवा:-प्राणधारणलक्षणास्तद्विपरीता अजीवा धर्मास्तिकायादयः, तत्र भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयति-इह खलु जीवा अपि द्विधा-प्रसाः स्थावराश्च, तेऽपि सूक्ष्मवादरपर्याप्तापर्याप्तकभेदेन बहुधा द्रष्टव्याः। एतेषु चोपरि बहुधा व्यापारः प्रवर्त्तते । अथ तदुपमर्दकव्यापारकर्तृन दर्शयितुमाह इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा, तेसयं समारंभंति, अन्नेण वि समारंभाविति, अन्नं पि समारंभंतं समणुजाणंति। व्याख्या-इह खलु संसारे गृहस्थाः ' सारम्भाः' जीवोपमईकारिणो वर्त्तन्ते सपरिग्रहाश्च वर्तन्ते, न केवलं गृहस्था प्रदर्शनम्। Jain Education in For Privats & Personal Use Oh T ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy