________________
जिब्भा मे फासा मे ममातिजति वयाओ पडिजूरति, तंजहा-आऊओ बलाओ वन्नाओ तयाओ छायाओ सोयाओ जाव फासाओ, सुसंधिता संधी विसंधी हवंति। वलि[य]तरंगे गाए भवति । किण्हा केसा पलिया भवंति । तंजहा-जंपि य इमं सरीरं उरालं आहारोवचियं, एयपि य अणुपुवेणं विप्पजहियवं भविस्सति । एवं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोग जाणेजा, [तंजहा-] जीवा चेव अजीवा चेव, तसा चेव थावरा चेव (सू. १३)।
व्याख्या-स मेधावी एतद्वक्ष्यमाणं जानीयात् , तद्यथा-बाह्यतरमेतज्ज्ञातिसम्बन्धनमिदं, इदमुपनीततर-मासनतरं, शरीरावयवानां आसन्नतरत्वात् । तद्यथा-हस्तौ मे पादौ मे पद्मगर्भसुकुमालौ, नान्यस्य कस्यापीदृशावित्यादि । शीर्ष मे उदरं मे शीलं मे आयुर्मे वर्णवलत्वचाछायाश्रोत्रचक्षुर्नासिकाजिह्वास्पर्शनेन्द्रियमित्याद्यगोपाङ्गाः सर्वेऽपि सुन्दरतराः, इत्येवं 'ममाति' ममी करोति, यादृक् मे न तादृगन्यस्येति भावः। एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं वयसः परिणामात्कालकृतावस्थाविशेषात् 'परिजरह 'त्ति परिजीर्यते-जीर्णतां याति, प्रतिक्षणं विशरारुतां याति । तस्मिंश्च प्रतिक्षणं विशीर्यति शरीरे प्रतिसमयं प्राण्येतस्माद्भश्यते, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्या अपचीयते, आवीचीमरणेन प्रतिसमयं मरणाभ्युपगमात् । तथा बलादपचीयते, तथाहि-यौवनावस्थायाश्यत्रमाने शरीरके प्रतिक्षणं शिथिली
Ein Education inte
For PrivatePersonal Use Only
HAMww.jainelibrary.org