SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम् । ॥ २० ॥ Jain Education दुःखोत्पादिकाः क्रियाः समारभते । नियत्यैवात्मा अनिच्छन्नपि तत्कार्यते येन दुःखी भवेत् । कारणमापन्न इति परेऽप्येवमायोजन (या) यम् । एवं स नियतिवादी दृष्टं पुरुषकारं परित्यज्य [अदृष्ट] नियतिपक्षाश्रयणेन महाऽविवेकी स्वकारणं परकारणं च दुःखशोकादिकमनुभवन्नियतिकृतमित्येवं विप्रतिवेदयति, नात्मना कृतं । कारणं चात्रैकस्या[सदनुष्ठानरतस्या ] पि न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्त्रीति नियतिवादे स्थिते परमपि यत्किश्चि[च]त्सर्वं नियत्यधीनमिति दर्शयितुमाह से बेमि- पाइणं वा ४ जे तसथावरा पाणा ते एवं संघायमागच्छंति, ते एवं विपरियासभावज्जंति, ते एवं विवेगमागच्छंति, ते एवं विहाणमागच्छंति, ते एवं संगतियंति उवेहाए नो एवं विप्पडिवेति । तं जहा व्याख्या -सोsहं नियतिवादी ' ब्रवीमि ' प्रतिपादयामि, ये केचन प्राच्यादिषु दिक्षु त्रसाः स्थावराश्च प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसम्बन्धमागच्छन्ति नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमार-यौवन - स्थविर - वृद्धावस्थादिकं विविधं पर्याय नियतित एवानुभवन्ति, तथा नियतित एव ' विवेकं ' शरीरात्पृथग् मनुभवन्ति तथा नियतित एव विविधं विधानं ' अवस्थाविशेषं कुब्जकाण खञ्जत्रा मन कजरामरणं रोगशोकादिकं बीभत्समागच्छन्ति । तदेवं ते प्राणिनखताः स्थावरा ' एवं ' पूर्वोक्तया नीत्या सङ्गतिं यान्ति-नियतिमापन्नाः नानाविध For Private & Personal Use Only द्वितीये श्रु० मत चतुष्कोपसंहारः । ॥ ॥ २० ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy