SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ कासि । परो वा जं दुक्खति वा जाव परितप्पइ वा नो परो एवमकासि, एवं से मेहावी सकारणं । वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । व्याख्या--नियतिवाद्येवं प्ररूपयति-यो 'बालो' मूर्खः स एवं जानाति यत्सुखदुःखाद्युत्पद्यते जन्तूनां तत्सर्व कालेश्वरादिकृतं जायते । तद्यथा-योऽहमस्मि दुःख-शारीरमानसमनुभवामि तथा 'सोयामि' इष्टानिष्टविप्रयोग[संप्रयोग] कृतं शोकमनुभवामि तथा 'तिप्पामि' शारीरबलात् क्षरामि तथा 'पीडामि' सबाह्याभ्यन्तरया पीडया पीडामनुभवामि । | तथा 'परितप्पामि' परितापमनुभवामि 'जूरयामि' अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामि । तदेवं यदहं सुखदुःखशोकादिकमनुभवामि तत्सर्व मयैव परपीडयाऽर्जितं ममोदयमागतम् । तथा परोऽपि यत्सुखदुःखादिक. मनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति दर्शयति-'परो चे' त्यादि । तथा परोऽपि यन्मां दुःखयति शोचयति इत्यादि प्राग्वज्ज्ञेयं, तत्सर्वमहमकार्षम् । बालोऽज्ञ एवं [वि]प्रतिवेदयति-जानीते । स्वकारणं वा परकारणं वा सर्व दुःखादि | पुरुषाकारा[दि] कृतमिति जानीते, तदेवं नियतिवादी पुरुषाकारकारणवादिनो बालत्वमापाद्य स्वमतमाह 'मेहावी' त्यादि, 'मेधावी' नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते । 'कारणमापन' इति नियतिरेव कारणं सुखदुःखाद्यनुभवस्य । तद्यथा-योऽहमस्मि 'दुःखयामि' शोचयामि तथा 'तिप्पामि 'त्ति परामि पीडामनुमवामि परितापमनुभवामि, नाहमेवमकार्ष दुःखं, अपि तु नियतित एवैतन्मय्यागतं, न पुरुषाकारादिकृतं, यतो-नहि कस्यचिदात्मा अनिष्टो, येनानिष्टा Jain Educati www.jainelibrary.org o For P n & Personal use only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy