________________
अपरं सर्व मिथ्येति तदाविर्भावयन्नाह___ जंपि य इमं समणाणं निग्गंथाणं उद्दिटुं पणियं वियंजियं दुवालसंगं गणिपिडगं, तंजहाआयारो सूयगडो जाव दिद्विवाओ, सबमेयं मिच्छा, ण एवं तहियं ण एवं अहातहियं
व्याख्या-यदपि चेदं प्रत्यक्षासन्नभृतं श्रमणानां' साधूनां ' उद्दिष्टं ' तदर्थ प्रणीतं, व्यञ्जितं-प्रकटीकृतम् । द्वादशाङ्गं गणिपिटकं, तद्यथा-आचाराङ्गं यावदृष्टिवादः, सर्वमेतन्मिथ्या, अनीश्वरप्रणीतत्वात् , यदीश्वरप्रणीतं तदेव सत्यमन्यत्सर्व मिथ्यैव, एतदपि गणिपिटकं ईश्वरप्रणीतं न भवति, स्वेच्छया कल्पितं, तेन मिथ्या । अनया प्ररूपणया अभृतोद्भावनत्वमावेदितं । गणिपिटकं सर्व दृष्टिवादपर्यन्तमतथ्यमपि तथ्यतया प्रतिपादयन्ति, अचौरे चीरत्ववत् असद्भूतार्थारोपणं कुर्वन्ति जैनाः। एतावता ईश्वरप्रणीतमेव तथ्यं नापरं किमपि । अथ यत्सत्यतया मन्यन्ते तदेवाह
इमं सच्चं इमं तहितं इमं अहातहितं, [ते] एवं सन्नं कुवांत ते एवं सन्नं संठावेंति, ते एवं सन्नं सोवढवयंति । तमेव ते तजाइयं दुक्खं णो तिउदंति ।
व्याख्या-यदीश्वरप्रणीतं तदेव तथ्य, तदेव यथातथ्यं, ते ईश्वरकारणिका एवं संज्ञां कुर्वन्ति, स्वदर्शनानुरागिणः संज्ञां संस्थापयन्ति । एवम्भूतां संज्ञां वक्ष्यमाणनीत्या नियुक्तिकामपि सुष्टु सामीप्येन तथाऽऽग्रहितया तदभिमुखा युक्तीः स्थापयन्ति, तत ईश्वरप्रणीतं सर्व सचेतनाचेतनं जगदित्यादिप्ररूपणया तमेव तदभ्युपगमजातीयं दुःखहेतुत्वादुःख-मष्टप्रकार
Jain Education interna
For Private & Personal Use Only
A
w.jainelibrary.org