________________
द्वितीये
सूपगडाङ्ग
सूत्रं दीपिका-1 न्वितम् । ॥१६॥
श्रुत० ईश्वरकारणिकमतम् ।
इह खलु धम्मा पुरिसादिया पुरिसोत्तरा पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमन्नागता पुरिसमेव अभिभूय चिटुंति । ___ व्याख्या-' इह ' संसारे, खल्विति वाक्यालङ्कारे, धर्माः-सचेतनाचेतनरूपाः पदार्थाः पुरुषादिकाः, पुरुष-ईश्वर आत्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुषोत्तराः, तथा पुरुषेण प्रणीताः, तथा पुरुषसम्भूताः 'पुरुष(प्र)द्योतिताः' पुरुषप्रकाशिताः, प्रदीपमणिसूर्यादिभिर्यथा घटपटादयः पदार्थाः प्रकाश्यन्ते तथा सर्वेऽपि पदार्थाः पुरुषेण-ईश्वरेण प्रकाशिताः, ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरसस्पर्शाः, अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेऽपीश्वरकृताः। सर्वेऽपि पुरुषमेवाभिव्याप्य तिष्ठन्ति । अस्मिन्नर्थे दृष्टान्तमाह
से जहानामए गंडे सिया सरीरे जाते सरीरे संवुड्डे सरीरे अभिसमन्नागते सरीरमेव अभिभूय चिट्ठति, एवामेव धम्मा पुरिसादिया, जाव [पुरिसमेव] अभिभूय चिटुंति । . व्याख्या-'से' ति तच्छाब्दार्थे । 'नाम' इति सम्भावनायां। यथा नाम गण्डं 'स्या'द्भवेत् । गण्डं रोगविशेषः । सम्भाव्यते प्राणिनां गण्डादिसमुद्भवः । तच्च शरीरे जातं, शरीरे वृद्धिमुपगतं, शरीरे अभिसमन्वागत-शरीरं व्याप्य व्यव. स्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति । शरीरममि[भूय-] व्याप्य (1) पीडयित्वा तिष्ठति, न शरीराबहिर्मवति,
For Private & Personal Use Only
arww.ininelibrary.org