________________
एवं तेऽनार्या अनार्यकर्मकारित्वाद्विरुद्धं मागं विप्रतिपनाः तं सद्दहमाणा' तमात्मीयमेव कुमतं पञ्च महाभूतात्मक श्रधानास्तमेव च सत्यमित्येवं 'प्रतीयन्तः' प्रतिपद्यमानास्तमेव स्वपक्षं रोचयन्तस्तद्धर्मस्याऽऽख्यातारं प्रशंसयन्तः 'स्वाख्यातो धर्मो भवता, अस्माकमयं धर्मोऽत्यन्तमभिप्रेतः, सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः स्त्रीकामेषु माञ्छिताः, इत्येवं पूर्ववन्नेयं, यावदन्तरे कामभोगेषु विषण्णाः ऐहिकामुष्मिकोभयकार्यभ्रष्टाः नात्म[नः] त्राणाय नापि परेषामिति । एवं द्वितीयः पुरुषजातः पञ्च महाभूताम्युपगमिको व्याख्यात इति, साम्प्रतं तृतीयपुरुषं ईश्वरकारणिकमधिकृत्याऽऽह____ अहावरे तच्चे पुरिसजाए ईसरकारणिएत्ति आहिज्जति, इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति अणुपुत्वेणं लोयं उववन्ना, तंजहा-आरिया वेगे, जाव तेसिं च णं महंते एगे राया भवति जाव सेणावतिपुत्ता, एतेसिं च णं एगतीए सड्डी भवति । कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति । ___व्याख्या-तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । इह खलु पुरुषप्रस्तावे, खलु शब्दो पाक्यालकारे, प्राच्यादिषु दिक्ष्वन्यतरस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात् , तद्यथा-राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धम्मो भवति इत्यादि सर्व पूर्ववदवगन्तव्यं । अथ य ईश्वरप्रणीतं जगदिदं मन्यते स कस्यापि राज्ञः समीपमागत्य आत्माभिप्रेतं धर्म प्ररूपयति
Jain Education in
For Private & Personal Use Only
G
w.jainelibrary.org