SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तथा परेण अनिर्मापयितव्यानि तथाऽकतानि-न केनचित्तानि क्रियन्ते, अभ्रन्द्रधनुर्वद्विश्रसा परिणामेन निष्पन्नत्वात्, तथा न घटवत्कुत्रिमाणि, कर्तुकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परव्यापाराभावतया 'नो' नैव कृतकानि, न अपेक्षितपरव्यापारस्वभावानि, विश्रसापरिणामेन निष्पन्नत्वात्कृत कव्यपदेशमाञ्जि न भवन्ति । तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्यकार्यकारीणि, तथा न विद्यते 'पुरोहितः ' कार्यं प्रति प्रवर्त्तयिता येषां तान्यपुरोहितानि तथा 'स्वतन्त्राणि स्वाधीनानि, तथा 'शाश्वतानि ' नित्यानि तदेवम्भूतानि पञ्च महाभूतान्यात्मषष्ठानि ज्ञातव्यानि । एके पुनरेवमाहुः - सतो णत्थि विणासो असतो णत्थि संभवो । एतावताव जीवकाए, एतावताव अस्थिकाए, एतावता सवलोए, एतं मुहं लोगस्स करणयाए । अवि अंतसो तणमायमवि । व्याख्या- तथा साँख्याभिप्रायेण 'सतो' विद्यमानस्य प्रधानादेर्नास्ति विनाशः [तथा ] ' असतः' शशविषाणादेर्नापि ' सम्भवः समुत्पत्तिरस्ति, अतः साँख्या आत्मनः कार्यकारित्वं न मन्यन्ते । यद्यात्मा क्रियायाः कर्ता स्यात्ततोऽसदुत्पादयति, अत आत्मा अकर्त्ता निर्गुण इति । ततः साँख्या एवं वदन्ति एतावानेव जीवकायो, यदुत-पञ्च महाभूतानि तथा एतावानेव भूतास्तित्वमात्र एवास्तिकायो, नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्ति । एतावानेव सर्वलोकः, पञ्च महाभूतानि लोक निष्पत्तौ ' मुख्यानि ' प्रधानकारणान्येतान्येव जानीहि । भूतान्येवान्तशस्रणमात्रमपि कार्यं कुर्वन्ति, पञ्च महाभूतेभ्यः परस्य कस्याप्यभावादिति । अथ स चैववाद्येकत्रात्मनोऽकिंचित्करत्वादन्यत्र चात्मनोऽसच्वादसदनुष्ठानैरपि नात्मा पापकर्म For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy